________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
पशुभ्यः स्थाने गोष्ठः ॥ ७।१।१३३ ॥ [ पशुभ्यः] पशु पञ्चमी भ्यस् । [स्थाने ] स्थान सप्तमी ङि । [गोष्ठः ] गोष्ठ प्रथमा सि ।। [ गोगोष्ठम् ] गवां स्थानं = गोगोष्ठम् । अनेन गोष्ठप्र० । सि-अम् । ' [महिषीगोष्ठम् ] महिषीणां स्थानं = महिषीगोष्ठम् । अनेन गोष्ठप्र० । सि-अम् । [अश्वगोष्ठम् ] अश्वानां स्थानम् = अश्वगोष्ठम् । अनेन गोष्ठप्र० । सि-अम् ॥छ।।
__द्वित्वे गोयुगः ॥ ७।१।१३४ ॥ [द्वित्वे] द्वित्व सप्तमी ङि । [गोयुगः ] गोयुग प्रथमा सि । [गोगोयुगम् ] गवोद्वित्वं = गोगोयुगम् । अनेन गोयुगप्र० । [अश्वगोयुगम् ] अश्वस्य(योः) द्वित्वम् = अश्वगोयुगम् । अनेन गोयुगप्र० । [ उष्ट्रगोयुगम्] उष्ट्रस्य(योः) द्वित्वम् = उष्ट्रगोयुगम् । अनेन गोयुगप्र० ॥छ।।
षट्वे षड्गवः ॥ ७।१।१३५ ॥ [षट्त्वे ] षट्त्व सप्तमी ङि । [षड्गवः] षड्गव प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । [उष्ट्रषड्गवम् ] उष्ट्राणां षट्त्वमुष्ट्रषड्गवम् । अनेन षड्गवप्र० । [हस्तिषड्गवम् ] हस्तिनां षट्त्वं = हस्तिषड्गवम् । अनेन षड्गवप्र० ।। [अश्वषड्गवम् ] अश्वानां षट्त्वमश्वषड्गवम् । अनेन षड्गवप्र० । इदमर्थानामपवादः ॥छ।
तिलादिभ्यः स्नेहे तैलः ॥ ७।१।१३६ ॥ [तिलादिभ्यः] तिल आदिर्येषां ते = तिलादयः, तेभ्यः = तिलादिभ्यः । पञ्चमी भ्यस् । [स्नेहे] स्नेह सप्तमी ङि । [तैलः] तैल प्रथमा सि । [तिलतैलम् ] तिलानां स्नेहो विकारः = तिलतैलम् । अनेन तैलप्र० । [सर्षपतैलम् ] सर्षपाणां स्नेहो विकारः = सर्षपतैलम् । अनेन तैलप्र० । [इगुदतैलम्] इनुदानां स्नेहो विकारः = इमुदतैलम् । अनेन तैलप्र० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org