________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[वाढयम्, वढिमा, वृढत्वम्, वृढता] वृढस्य भावः = वायम्, वढिमा । अनेन ट्यणप्र० → य - इमन्प्र० । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आर् । मतान्तरेण 'पृथु-मृदु-भृश०' (७।४।३९) वृढस्य ऋतो रत्वम् । अग्रे पूर्ववत् ।
[पारिवृदयम्, परिवढिमा, परिवृढत्वम्, परिवृढता] परिवृढस्य भावः = पारिवृदयम्, परिवढिमा । अनेन ट्यणप्र० → य - इमन्प्र० । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । 'पृथु-मृदु-भृश-कृश-दृढ-परिवृढस्य ऋतो रः' (७४।३९) रत्वम् । एवमग्रेऽपि ।
[वैमत्यम्; विमतिमा, विमतित्वम्, विमतिता, वैमतम्] विमति मण्ड्यते । विविधा नानाप्रकारा वा मतिः = विमतिः । विमतेर्भावः = वैमत्यम्, विमतिमा । अनेन ट्यणप्र० → य - इमन्प्र० । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) इलुक् । पूर्ववदग्रेऽपि एवम्-वैमतम् । 'य्ववर्णाल्लघ्वादेः' (७४/६९) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[साम्मत्यम्, सम्मतिमा, सम्मतित्वम्, सम्मतिता, साम्मतम् ] सम्मति । सम्मतेर्भावः = साम्मत्यम्, सम्मतिमा । अनेन ट्यणप्र० → य - इमन्प्र० । अग्रेऽपि पूर्ववत् । एवम्-साम्मतम् । 'स्ववर्णाल्लघ्वादेः' (७१।६९) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७४।१) वृद्धिः आ । 'अवर्णवर्णस्य' (७४।६८) इलुक् ।
टकारो ड्यर्थः -
[आर्हन्त्यम्, आर्हन्ती] 'अर्ह पूजायाम्' (५६४) अर्ह । अर्हतीति अर्हन् । 'सुग्-द्विषार्हः सत्रि-शत्रु-स्तुत्ये' (५।२।२६) अतृश्प्र० → अत् । 'कर्तर्यनदभ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । अर्हतो भावः = आर्हन्त्यम् । अनेन ट्यणप्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः आ । 'अर्हतस्तो न्त् च' (७।१।६१) "न्त"देशः । अग्रेतने आर्हन्त्यशब्दे 'अणजेयेकण्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।६८) अलुक् । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् ।
उचितादयो राजादिगणे द्रष्टव्याः, आकृतिगणत्वात् । [ औचिती] उचितस्य भावः = औचिती । [यथाकामी] कामस्यानतिक्रमेण = यथाकामम् । यथाकामस्य भावः = यथाकामी । . [सामग्री] समग्राणां भावः = सामग्री । [शैली] शीलस्य भावः = शैली । [पारिख्याती] परिख्यातस्य भावः = पारिख्याती ।
[आनुपूर्वी] यो यः पूर्वोऽनुपूर्वम् । अनुपूर्वस्य भावः = आनुपूर्वी । 'पतिराजान्त०' (७।१।६०) ट्यणप्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलुक् । . [स्थैर्यम्, स्थेमा] स्थिर । स्थिरस्य भावः = स्थैर्यम्, स्थेमा । अनेन ट्यणप्र० → य । 'प्रिय-स्थिर-स्फिरोरु-गुरुबहुल-तृप्र-दीर्घ-वृद्ध-वृन्दारकस्येमनि प्रा-स्था०' (७।४।३८) द्वितीये स्थिरस्य स्थ(था)देशः । प्रथमे 'वृद्धिः स्वरे.' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक । सि-अम् । द्वितीये प्र० सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ॥छ।।
Jain Education International
www.jainelibrary.org
For Personal & Private Use Only