________________
२२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[ गुरुवद् गुरुपुत्रे वर्तितव्यम् ] गुरुष्विव = गुरुवत् । पूर्वेण वत्प्र० । गुरुपुत्रे वर्तितव्यम् ॥छ।।
तस्य ॥ ७१॥५४॥ . [तस्य तस्य पञ्चमी ङसि । सूत्रत्वात् (लोपः) ।
[मैत्रस्य गावश्चैत्रवत् ] चैत्रस्येव । मैत्र । स्य(?)(तस्य) गावः चैत्रवत् । अनेन वतप्र० । सि । 'अव्ययस्य' । (३।२।७) सिलुप् ।
[क्षत्रियस्य दन्ताः ब्राह्मणवत्] ब्राह्मणस्येव क्षत्रियस्य दन्ताः = ब्राह्मणवत् । अनेन वत्प्र० । सि । 'अव्ययस्य' (३।२७) सिलुप् । अक्रियाविषयसादृश्यार्थ आरम्भः ॥छ।।
भावे त्व-तल् ॥ ७॥१५५ ॥ [भावे] भाव सप्तमी ङि । [त्वतल्] त्वश्च तल् च = त्वतल् ।
भवतोऽस्मादभिधानप्रत्ययाविति भावः, शा(शब्दस्या(य) प्रवृत्तिनिमित्तं द्रव्यविशेष्यसंसर्गी भेदको गुणः । यंदाहुः - . यस्य गुणस्य भावस्य हि भावात्-सद्भावात् द्रव्ये-विशेष्ये शब्दनिवेशप्रवृत्तिः तदभिधाने त्व-तलाविति । तत्र जातिगुणाज्जातिगुणे, समासकृत्तद्धितात् सम्बन्धे । डित्थादेः स्वे रूपे, त्व-तलादीनां विधिर्भवति ॥१॥
तत्र जातिवचनेभ्यो जातौ -
[गोत्वम्, गोता] गोशब्दस्य भावः = गोत्वम्, गोता । अनेन त्व-तलप्र० → त । 'आत्' (२।४।१८) आप्प्र० → आ । अत्र गोशब्दजाति वः । गोरर्थस्य भावो गोत्वम्, गोता । अनेन त्व-तल्प० । अत्र गता(वा)र्थजातिर्भावः ।
[अश्वत्वम्, अश्वता] अश्वस्य शब्दस्य भावः, अश्वस्यार्थस्य भावो वा = अश्वत्वम्, अश्वता । अनेन ल्व-तलप्र० । [शुक्लत्वम्, शुक्लता] शुक्लस्य भावः = शुक्लत्वम्, शुक्लता । अनेन त्व-तल्प० । अत्र शुक्लगुणजातिः । [रूपत्वम, रूपता] रूपस्य भावः = रूपत्वम. रूपता । अनेन त्व-तलप्र० । [ रसत्वम्, रसता] रसस्य भावः = रसत्वम्, रसता । अनेन त्व-तत्प्र० । अत्र रूपादिगुणजातिः । कत्वं-खत्वमिति भिन्नवर्णव्यक्तिसमवेता जातिः । कवर्गत्वं चवर्गत्वमिति ककारादिवर्गव्यक्तिसमवेता जातिः संहतिः । ये गुणे वर्तित्वा तद्योगात् गुणे निवर्तन्ते ते गुणशब्दाः । गुणशब्देभ्यो गुणे
[शुक्लत्वम्, शुक्लता] शुक्लस्य पटस्य भावः = शुक्लत्वम्, शुक्लता । अनेन त्व-तलप्र० । अत्र शुक्लो गुणो भावः ।
[शुक्लतरत्वम् ] अतिशयेन शुक्लः = शुक्लतरः । 'द्वयोविभज्ये च तरप्' (७३।६) तरप्प्र० → तर । शुक्लतरस्य भावः = शुक्लतरत्वम् । अनेन त्वप्र० ।
[शुक्लतमत्वम् ] प्रकृष्टः शुक्लः = शुक्लतमः । 'प्रकृष्टे तमप्' (७।३।५) तमप्र० → तम । शुक्लतमस्य भावः = शुक्लतमत्वम् । अनेन त्वप्र० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org