________________
२९४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[अपरवार्षिकः ] अपरासु वर्षासु भवः = अपरवार्षिकः । 'वर्षा-कलेभ्यः' (६।३।८०) इकण्प्र० → इक । अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) आलुक् ।
[ पूर्वशारदः ] पूर्व भागान्तरं शरदः = पूर्वशारदः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[अपरशारदः] अपरं भागान्तरं शरदः = अपरशारदः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[पूर्वनैदाघः] पूर्वं निदाघस्य = पूर्वनैदाघः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[अपरनैदाघः] अपरं निदाघस्य = अपरनैदाघः । 'भर्तु-सन्ध्यादेरण्' (६।३।८९) अण्प्र० → अ । अनेन उत्तरपदवृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'पूर्वा-ऽपरा-ऽधरोत्तरमभिन्नेनांशिना' (३।१।५२) समासः ।
[पूर्वहैमनः ] पूर्व भागान्तरं हेमन्तस्य = पूर्वहैमनः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । 'हेमन्ताद् वा तलुक् च' (६।३।९१) तलुक् । अनेन उत्तरपदवृद्धिः ऐ।
[अपरहैमनः ] अपरं भागान्तरं हेमन्तस्य = अपरहैमनः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । 'हेमन्ताद् वा तलुक् च' (६।३।९१) तलुक् । अनेन उत्तरपदवृद्धिः ऐ।
[पौर्ववर्षिकः] पूर्वासु ऋत्वन्तरैर्व्यवहितासु वर्षासु भवः = पौर्ववा(व)र्षिकः । 'वर्षा-कालेभ्यः' (६।३।८०) इकणप्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धि: औ । 'अवर्णेवर्णस्य' (७/४/६८) आलुक् । अत्र पूर्वशब्दो न । वर्षाणामेकदेशं ब्रूते किन्तु व्यवहितत्वमिति न पूर्वशब्दोंऽशवचनः ।
[सौवर्षिकः] सुवर्षासु भवः = सौवा(व)र्षिकः । 'वर्षा-कालेभ्यः' (६।३।८०) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।
[पौर्वपिप्पलम्] पूर्वं पिप्पल्याः = पूर्वपिप्पली । पूर्वपिप्पल्या इदं = पौर्वपिप्पलम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । सि-अम् ।
[आर्द्धपिप्पलम्] अर्द्धं पिप्पल्याः = अर्द्धपिप्पली । अर्द्धपिप्पल्या इदम् = आर्द्धपिप्पलम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । सि-अम् ॥छा।
सु-सर्वाऽर्द्धाद् राष्ट्रस्य ॥ ७।४।१५ ॥ [सुसर्वाऽर्द्धात् ] सुश्च सर्वश्च अर्द्धश्च = सुसर्वाऽर्द्धम्, तस्मात् । [ राष्ट्रस्य ] राष्ट्र षष्ठी ङस् ।
[सुपाञ्चालकः] पञ्चालस्यापत्यानि । 'राष्ट्र-क्षत्रियात् सरूपाद् राजाऽपत्ये दिरञ्' (६।१।११४) अप्र० → अ । 'बहुष्वस्त्रियाम्' (६।१।१२४) लुप् । शोभनेषु पञ्चालेषु भवः = सुपाञ्चालकः । 'बहुविषयेभ्यः' (६।३।४४) अकप्र० → अक । अनेन उत्तरपदवृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) अलुक् ।
[सर्वपाञ्चालकः] सर्वेषु पञ्चालेषु भवः = सर्वपाञ्चालकः । 'बहुविषयेभ्यः' (६।३।४४) अकप्र० → अक । अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org