SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ २६९ [आर्द्रपदी] आद्रौ पादौ यस्याः सा = आर्द्रपदी। [गोधापदी ] गोधावत् पादौ यस्याः सा = गोधापदी । [कलशीपदी ] कलशीवत् पादावस्याः सा = कलशीपदी । [दासीपदी] दासीवत् पादावस्याः सा = दासीपदी । [विष्णुपदी] विष्णुवत् पादावस्याः सा = विष्णुपदी । [कृष्णपदी ] कृष्णौ पादावस्याः सा = कृष्णपदी । [ कुणिपदी ] कुणी पादावस्याः सा = कुणिपदी । [गुणपदी ] गुणवत् पादावस्याः सा = गुणपदी । [द्रोणीपदी ] द्रोणीवत् पादावस्याः सा = द्रोणीपदी । [ सकृत्पदी ] सकृदेकः पादोऽस्याः सा = सकृत्पदी । [सूकरपदी ] सूकरस्येव पादावस्याः सा = सूकरपदी । [शुचिपदी] शुची निर्मलौ पादावस्याः सा = शुचिपदी । [विपदी] वि-पक्षिवत् पादावस्याः सा = विपदी । [अपदी] न विद्यते पादावस्याः सा = अपदी । [निष्पदी] निर्गतौ पादावस्याः सा = निष्पदी । 'निर्दुर्बहिराविष्प्रादुश्चतुराम्' (२।३।९) र० → ष० । [अष्टापदी ] अष्टौ पादावस्याः (पादा अस्याः) सा = अष्टापदी । संज्ञायां 'नाम्नि' (३।२।७५) इत्यसंज्ञायां तु निपातनाद् दीर्घः । . [अशीतिपदी] अशीतिः पादा अस्याः सा = अशीतिपदी । अनेन पादशब्दस्य "पात्"देशः । 'वा पादः' (२।४।६) ङी । येऽत्रोपमानपूर्वास्तेषां पूर्वेण, संख्यादीनां चोत्तरेण सिद्धे, यदिह वचनं तेन 'वा पादः' (२।४।६) इति ङीविकल्पो न भवति ॥छ। सु-संख्यात् ॥ ७॥३॥१५० ॥ [सुसंख्यात्] सुश्च संख्या च = सुसंख्यम्, तस्मात् । 'क्लीबे' (२।४।९७) हुस्वः । [सुपाद् ] शोभनौ पादावस्य = सुपात् । [द्विपाद् ] द्वौ पादावस्य = द्विपात् । [त्रिपात् ] त्रयः पादा अस्य = त्रिपात् । - [चतुष्पात् ] चत्वारः पादा अस्य = चतुष्पात् । अनेन सर्वत्र पादशब्दस्य पाद्देशः-एवं समासान्तः । 'निर्दुर्बहिराविष्प्रादुश्चतुराम्' (२।३।९) र० → ष० । पक्षे Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy