SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २६६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [चारुजम्भः ] चारुश्चार्वी जम्भो जम्भा वा अस्य = चारुजम्भः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [पतितजम्भः] पतिता जम्भो अस्य = पतितजम्भः । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ॥छा। ___ दक्षिणेर्मा व्याधयोगे ॥ ७।३।१४३ ॥ [ दक्षिणेर्मा ] दक्षिणेर्मन् प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । [व्याधयोगे] व्याधेन योगः = व्याधयोगस्तस्मिन् । [दक्षिणेर्मा मृगः] दक्षिणेर्म मण्ड्यते । दक्षिणमङ्गमीम बहुव्रणं वा अस्य = दक्षिणेर्मा मृगः । अनेन दक्षिणेर्मन् निपात्यते । प्रथमा सि । “नि दीर्घः' (१।४।८५) दीर्घः । व्यद्धकामस्य व्याधस्य दक्षिणं भागं बहुकृत्य व्यधनानुकूलं स्थितो व्याधेन वा दक्षिणभागे कृतव्रण एवमुच्यते । [दक्षिणेर्मं शकटम् ] दक्षिणमङ्ग(ङ्ग) ईर्म(म) बहुव्रणं वा यस्य तत् = दक्षिणेर्मं शकटम् । सि-अम् । [दक्षिणेर्मः पशुः] दक्षिणमङ्गमीर्मं बहुव्रणं वा यस्य सः = दक्षिणेम: पशुः । प्रथमा सि । 'सो रु:' (२।१।७२) स० → र० ॥छ। सु-पूत्युत्-सुरभेर्गन्धादिद् गुणे ॥ ७।३।१४४ ॥ [ सुपूत्युत्सुरभेः ] सुश्च पूतिश्च उच्च सुरभिश्च = सुपूत्युत्सुरभि, तस्मात् । [गन्धात् ] गन्ध पञ्चमी ङसि । [इत्] इत् प्रथमा सि । [गुणे] गुण सप्तमी ङि । [सुगन्धि चन्दनम् ] शोभनो गन्धो गुणोऽस्य तत् = सुगन्धि चन्दनम् । अनेन इत्समासान्तः → इ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि । 'अनतो लुप्' (१।४।५९) लुप् । [पूतिगन्धि करञ्जम्] पूति(:) गन्धो गुणोऽस्य तत् = पूतिगन्धि करञ्जम् । अनेन इत्समासान्तः → इ। 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि । 'अनतो लुप्' (१।४।५९) लुप् । [उद्गन्धि कमलम् ] उत्कटो गन्धो गुणोऽस्य तत् = उद्गन्धि कमलम् । अनेन इत्समासान्त: → इ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि । 'अनतो लुप्' (१।४।५९) लुप् । [सुरभिगन्धि केसरम्] सुरभि गन्धो गुणोऽस्य तत् = सुरभिगन्धि केसरम् । अनेन इत्समासान्त: → इ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि । 'अनतो लुप्' (१।४।५९) लुप् । उत्तरत्राऽऽगन्तोर्वावचनादिह स्वाभाविकाद्भवति । [ तीव्रगन्धं हिगु] तीव्रो गन्धो गुणोऽस्य तत् = तीव्रगन्धं हिङ्गु । सि-अम् । [उग्रगन्धा वचा] उग्रो गन्धो गुणोऽस्याः सा = उग्रगन्धा वचा । 'आत्' (२।४।१८) आप्प्र० → आ । सि । 'दीर्घङ्याब्-व्यञ्जनात् से:' (१।४।४५) लुक् । [सुरसः ] शोभनो रसो गुणोऽस्य = सुरसः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy