SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २५२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । पुरुषायुष-द्विस्ताव-त्रिस्तावम् ॥ ७।३।१२० ॥ [पुरुषायुषद्विस्तावत्रिस्तावम् ] पुरुषायुषश्च द्विस्तावश्च त्रिस्तावश्च = पुरुषायुषद्विस्तावत्रिस्तावम् । [पुरुषायुषम् ] पुरुषस्यायुः = पुरुषायुषम् । अनेन निपातः । [द्विस्तावा ] द्विस्तावती = द्विस्तावा । अनेन निपातनात् अतीशब्दलोपम् । 'आत्' (२।४।१८) आप्प्र० → आ । . 'अव्ययं प्रवृद्धादिभिः' (३।१।४८) इत्यनेन समासः । [त्रिस्तावा वेदिः] त्रिस्तावती = त्रिस्तावा वेदिः । अनेन निपातनात् अतीशब्दलोपम् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अव्ययं प्रवृद्धादिभिः' (३।१।४८) इत्यनेन समासः । वेद्यामनयोः प्रयोगः । प्रकृतौ यावती वेदिस्तावती द्विगुणा त्रिगुणा वा कस्यांचिद्विकृतौ भवति । प्रकृतिविकृती यागविशेषौ । अन्यत्रापि दृश्यते । [द्विस्तावोऽग्निः] द्विस्तावती = द्विस्तावोऽग्निः । [त्रिस्तावोऽग्निः ] त्रिस्तावती = त्रिस्तावोऽग्निः । कस्मिंश्चिद् व्याकरणे केनापि सूत्रेण निपात्यते द्विस्ताव-त्रिस्ताव ॥छ।। श्वसो वसीयसः ॥ ७।३।१२१ ॥ [ श्वसः] श्वस् पञ्चमी ङसि । [वसीयसः] वसीयस पञ्चमी ङसि । [श्वोवसीयसं कल्याणम्] वसु-द्रव्यं रत्नं वा विद्यतेऽस्य तत् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । इदमनयोर्मध्ये प्रकृष्टं वसुमत् = वसीयः । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) ईयसुप्र० → ईयस् । “विन्-मतोर्णीष्ठेयसौ लुप्' (७४।३२) मत्लुप् । शोभनं वसीयः = श्वोवसीयसम् । अत्समासान्तः → अ । सि-अम् । कल्याणम् । श्वोवसीयमित्यपि विश्वदत्तहलायुधौ तदा डप्रत्ययान्तः ॥छ।। निसश्च श्रेयसः ॥ ७।३।१२२ ॥ [निसः] निस् पञ्चमी ङसि । [च] च प्रथमा सि । [श्रेयसः] श्रेयस् पञ्चमी ङसि । [निःश्रेयसं निर्वाणम् ] निश्चितं श्रेयः = निःश्रेयसं निर्वाणम् । अनेन अत्समासान्तः → अ । सि-अम् । [श्वःश्रेयसम्] शोभनं श्रेयः = श्वःश्रेयसम् । अनेन अत्समासान्तः → अ । सि-अम् । नञव्ययात् संख्याया डः ॥ ७।३।१२३ ॥ [नअव्ययात् ] नञ् च अव्ययं च = नत्रव्ययम्, तस्मात् । [संख्यायाः] संख्या पञ्चमी ङसि । [डः ] ड प्रथमा सि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy