SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ।। २४१ खार्या वा ॥ ७३।१०२ ॥ [खार्याः ] खारी पञ्चमी ङसि । [वा] वा प्रथमा सि । पृथग्योगाद् द्वि-त्रेरिति निवृत्तम् । [द्विखारम्, द्विखारि] द्वयोः खार्योः समाहारः = द्विखारम् । अनेन अट्समासान्तः → अ । 'अवर्णेवर्णस्य' (७४/६८) ईलुक् । सि । पक्षे-'क्लीबे' (२।४।९७) हुस्वः । द्विखारि स्थिते तु अन्यस्तु सर्वो नपुंसक इति क्लीबत्वमेव । [पञ्चखारम, पञ्चखारि] पञ्चानां खारीणां समाहारः = पञ्चखारम् । अनेन अट्समासान्तः → अ । 'अवर्णवर्णस्य' (७।४।६८) ईलुक् । एवम्-पञ्चखारि । 'क्लीबे' (२।४।९७) हुस्वः । [द्विखारमयम्, द्विखारीमयम् ] द्वाभ्यां खारीभ्यामागतं = द्विखारमयम् । अनेन अट्समासान्तः → अ । 'नृ-हेतुभ्यो रूप्य-मयटौ वा' (६।३।१५६) मयट्प्र० → मय । [पञ्चखाररूप्यम्, पञ्चखारीरूप्यम्] पञ्चभ्यः खारीभ्यः आगतं = पञ्चखाररूप्यम् । अनेन अट्समासान्तः → अ । 'नृ-हेतुभ्यो०' (६।३।१५६) रूप्यप्र० । [द्विखारप्रियः, द्विखारीप्रियः] द्वौ खायौँ प्रियेऽस्य = द्विखारप्रियः । अनेन अट्समासान्तः → अ । 'अवर्णेवर्णस्य' (७४/६८) ईलुक् । [पञ्चखारधनः, पञ्चखारीधनः] पञ्च खार्यो धनमस्य = पञ्चखारधनः । अनेन अट्समासान्तः → अ । 'अवर्णेवर्णस्य' (७४/६८) ईलुक् । [उपखारि] खार्याः समीपम् = उपखारि । 'क्लीबे' (२।४।९७) हुस्वः । [अधिखारि ] खार्यां निधेहि = अधिखारि । 'क्लीबे' (२।४।९७) हुस्वः । [द्विखारः, द्विखारम्] द्वाभ्यां खारीभ्यां क्रीतः । 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् । 'ङ्यादेर्गौणस्या०' (२।४।९५) ङीनिवृत्तिः । एवम्-द्विखारम् । [द्विखारी] द्वे खा? मानमस्याः सा = द्विखारी । 'मात्रट्' (७।१।१४५) मात्रटप्र० । 'द्विगोः संशये च' (७।१।१४४) लुप् । 'परिमाणात् तद्धितलु०' (२।४।२३) ङी । 'अस्य यां लुक् (२।४।८६) अलुक् ॥छ।। वाऽर्धाच्च ॥७३।१०३ ॥ [वा] वा प्रथमा सि । [अर्धात् ] अर्ध पञ्चमी ङसि । [च] च प्रथमा सि । [अर्धखारम्, अर्धखारी] अर्धं खार्याः = अर्धखारम् । अनेन अट्समासान्तः → अ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । सि-अम् । एवम्-अर्धखारी ॥छा। नावः ॥ ७।३।१०४ ॥ [नावः] नौ पञ्चमी ङसि । [अर्धनावम्, अर्धनावी] अर्ध नावः = अर्धनावम् । अनेन अट्समासान्तः → अ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy