SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ २०१ [देवियः, देविकः, देविलः, देवदत्तकः] अनुकम्पितो देवदत्तः = देवियः, देविका, देविलः । अनेन इय-इकइलप्र० । 'द्वितीयात् स्वरादूर्ध्वम्' (७।३।४१) दत्तशब्दलोपः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्-देवदत्तकः । 'अनुकम्पा-तद्युक्तनीत्योः' (७।३।३४) कप्प्र० → क । [जिनियः, जिनिकः, जिनिलः, जिनदत्तकः] अनुकम्पितो जिनदत्तः = जिनियः, जिनिकः, जिनिलः । अनेन इय-इक-इलप्र० । 'द्वितीयात् स्वरादूर्ध्वम्' (७।३।४१) दत्तशब्दलोपः । एवम्-जिनदत्तकः । 'अनुकम्पा-तद्युक्तनीत्योः' (७।३।३४) कप्प्र० → क । [महिषकः] अनुकम्पितो महिषः = महिषकः । जातिः प्रवृत्तिनिमित्तं नाम च । 'अनुकम्पा-तद्युक्तनीत्योः' (७।३।३४) कप्प्र० → क । [वराहकः] अनुकम्पितो वराहः = वराहकः । 'अनुकम्पा०' (७।३।३४) कप्प्र० → क । [शूकरकः] अनुकम्पितः शूकरः = शूकरकः । 'अनुकम्पा०' (७।३।३४) कप्प्र० → क । [गर्दभकः] अनुकम्पितो गर्दभः = गर्दभकः । 'अनुकम्पा०' (७।३।३४) कप्प्र० → क । . एते जातिशब्दा मनुष्यनामानि च । [व्याघ्रिलः ] अनुकम्पितो व्याघ्रः = व्याघ्रिलः । [सिंहिलः] अनुकम्पितः सिंहः = सिंहिलः । मतान्तरे अनेनैव इलप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । अन्यथा व्याघ्र सिंह इत्येवंविधा द्विस्वरैव प्रकृतिः, न तु व्याघ्रदत्त सिंहदत्त इत्यनेकस्वराः, द्विस्वरयोरेवानयोर्जातिवाचित्वात् बहुस्वरादित्यपि प्रायिकमित्यस्यासङ्गतार्थत्वापत्तेश्च । मतान्तरे अनेनैव इलप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [सुसीमकः सीमा स्फुटा] अनुकम्पितः सुसीमा = सुसीमकः । 'अनुकम्पा-तद्युक्तनीत्योः' (७।३।३४) कप्प्र० → क । सीमा स्फुटा-सीमन् शब्दः । [ अनुकम्पितो देवदत्तो हस्ती देवदत्तकः ] अनुकम्पितो देवदत्तो हस्ती देवदत्तकः । कस्यचित् हस्तिनो देवदत्त इति नाम । 'अनुकम्पा-तद्युक्तनीत्योः' (७।३।३४) कप्प्र० → क । [मद्रबाहुकः] मद्रौ बाहू यस्य सः = मद्रबाहुः । अनुकम्पितो मद्रबाहुः = मद्रबाहुकः । 'अनुकम्पा०' (७।३।३४) कप्प्र० → क । विशेषणमेतन्नाम । [रामकः] अनुकम्पितो रामः = रामकः । 'अनुकम्पा-तद्युक्तनीत्योः' (७।३।३४) कप्प्र० → क । [गुप्तकः] अनुकम्पितो गुप्तः = गुप्तकः । 'अनुकम्पा०' (७।३।३४) कप्प्र० → क ॥छ।। वोपादेरडाकौ च ॥ ७।३।३६ ॥ [वा] वा प्रथमा सि । [उपादेः] उप आदिर्यस्य सः = उपादिस्तस्मात् । [अडाकौ ] अडश्च अकश्च = अडाकौ । [च] च प्रथमा सि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy