SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १९२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । . स्नाताद् वेदसमाप्तौ ॥ ७।३।२२ ॥ [स्नातात् ] स्नात पञ्चमी ङसि । [ वेदसमाप्तौ] वेदस्य समाप्तिः = वेदसमाप्तिस्तस्याम् । [स्नातकः] वेदं समाप्य स्नातः = स्नातकः । अनेन कप्र० ॥छ।। तनु-पुत्रा-ऽणु-बृहती-शून्यात् सूत्र-कृत्रिम-निपुणा-ऽऽच्छादन-रिक्ते ॥ ७।३।२३ ॥ [तनुपुत्राऽणुबृहतीशून्यात् ] तनुश्च पुत्रश्च अणुश्च बृहती च शून्यं च = तनुपुत्राऽणुबृहतीशून्यम्, तस्मात् । [सूत्रकृत्रिमनिपुणाऽऽच्छादनरिक्ते] सूत्रं च कृत्रिमश्च निपुणश्च आच्छादनं च रिक्तश्च = सूत्रकृत्रिमनिपुणाऽऽच्छादनरिक्तम्, तस्मिन् । [ तनुकं भङ्गादिमयं कल्पादि च] तनोः सूत्रे । तनु सूत्रं = तनुकम् । अनेन कप्र० । भङ्गादिमयं कल्पादि च । [पुत्रकः] पुत्रात् कृत्रिमे । कृत्रिमस्तक्षादिव्यापारनिष्पादितः । कृत्रिमः पुत्रः = पुत्रकः । अनेन कप्र० । [औरसः पुत्रः] उरस् । उरसा कृतः = औरसः । 'उरसो या-ऽणौ' (६।३।१९६) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृद्धिः औ।। [अणुकः] अणोनिपुणे । निपुणो निष्णातोऽणुः = अणुकः । अनेन कप्र० । [बृहतिका आच्छादनविशेषः] बृहत्या आच्छादने । आच्छादनविशेषो बृहती = बृहतिका । अनेन कप्र० । 'ङ्यादीदूतः के' (२।४।१०४) हुस्वः । बृहती शब्देन रिंगणी उच्यते । [शून्यकः रिक्तश्चेत् ] शून्याद्रिक्ते । रिक्तो धनप्रज्ञादिना । शून्य एव = शून्यकः । अनेन कप्र० । [शून्यम् ] श्वन् मांडणीयइ । शुने हितं = शून्यम् । 'शुनो वश्चोदूत्' (७।१।३३) यप्र०-व० → ऊकारश्च ॥छ।। भागेऽष्टमाञः ॥७३॥२४॥ [भागे] भाग सप्तमी ङि। [अष्टमात्] अष्टम पञ्चमी ङसि । [ञः] प्रथमा सि । [आष्टमो भागः] अष्टम एव = आष्टमो भागः । अनेन उप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [अष्टमो जिनः चन्द्रप्रभः] अष्टन् मण्ड्यते । अष्टानां पूरणः = अष्टमो जिनश्चन्द्रप्रभः । 'नो मट्' (७।१।१५९) मट्प्र० → म । 'नोऽपदस्य तद्धिते' (७।४।६१) नलुक् ॥छ।। षष्ठात् ॥ ७।३।२५ ॥ [षष्ठात् ] षष्ठ पञ्चमी ङसि । [षाष्ठो भागः] षष्ठ एव = षाष्ठो भागः । अनेन अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ॥छ। माने कश्च ॥ ७।३।२६ ॥ [माने] मान सप्तमी ङि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy