SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ [ शुक्लतमा शाटी] शुक्ला । प्रकृष्टा शुक्ला शुक्लतमा शाटी । अनेन तमप्प्र० तम । 'क्यङ् - मानिपित्तद्धिते' (३।२।५०) पुंवद्भावः । 'आत्' (२|४|१८) आप्प्र० आ छ द्वयोर्विभज्ये च तरप् ॥ ७|३|६ ॥ = [द्वयोः ] द्वि सप्तमी ओस् । [विभज्ये ] 'भजीं सेवायाम्' (८९५) भज्, विपूर्व० । विभज्यते सहि-यजि - भजि-पवर्गात्' (५।१।२९) यप्र०, तस्मिन् । [च] च प्रथमा सि । [तरप्] तरप् प्रथमा सि । अनेन तरप्प्र० → तर । [ पटुतरः] द्वाविमौ पटू, अयमनयोर्मध्ये प्रकृष्टः पटुः = पटुतरः । [ सुकुमारतरः ] द्वाविमौ सुकुमारौ, अयमनयोर्मध्ये प्रकृष्टः सुकुमारः [ पाचकतर: ] द्वाविमौ पाचकौ, अयमनयोर्मध्ये प्रकृष्टः पाचकः = पाचकतरः । अनेन तरपूप्र० → तर । सुकुमारतरः । अनेन तरप्प्र० तर । [ गोतरो यः शकटं वहति सीरं च] द्वाविमौ गावौ अयमनयोर्मध्ये प्रकृष्टो गौ: गोतरो यः शकटं शी (सी) रं च वहति । अनेन तरप्प्र० तर । = Jain Education International = [ गोतरा या समां समां विजायते स्त्रीवत्सा च] द्वे इमे गावौ इयमनयोर्मध्ये प्रकृष्टा गौः तर । 'आत्' (२|४|१८) आप्प्र० आ । स्त्रीवत्सा च । तरप्प्र यथौषधिरसाः सर्वे, मधुन्याहितशक्तयः । अविभागेन वर्त्तन्ते, तां संख्यां तादृशीं विदुः ॥ १ ॥ १७९ विभज्यम् । 'शकि- तकि- चति-यति-शसि = [ दन्ताः स्निग्धतराः ] दन्ताश्च ओष्ठौ च = दन्तौष्ठम् । 'प्राणि- तूर्याङ्गाणाम्' (३|१|१३७) इत्यनेन एकत्वम् । दन्तौष्ठस्य मध्ये स्निग्धतराः । मध्ये इति अर्थकथनकारणे भणितोऽस्ति मूलवाक्ये न । For Personal & Private Use Only [पाणी सुकुमारतरौ ] पाणी च पादौ च = पाणिपादम् । 'प्राणि- तूर्याङ्गाणाम् ' ( ३।१।१३७) एकत्वम् । पाणिपादस्य मध्ये = पाणी सुकुमारतरौ । अभेदैकत्वसंख्या इति शब्दा व्याख्यायते । न विद्यते भेदो यस्याः सा = अभेदा, सा चासावेकत्वसंख्या च = अभेदैकत्वसंख्या । गोतरा । अनेन चैत्रेण चैत्राभ्यां चैत्रैर्वा भूयते इत्यत्र या संख्या सा अभेदैकत्वसंख्येति । यदा इतरेतरयोगस्तदा बह्वर्थप्रकर्ष इति तमबेव भवति । [ परुद्भवान् पटुरासीत् पटुतर ऐषमः ] परुद्भवान् पटुरासीत् पटुतरः ऐषमः । अनेन तरप्प्र० तर । विभज्ये [ सांकाश्यकेभ्यः पाटलिपुत्रका आढ्यतराः, अभिरूपतराः, सुकुमारतराः ] सांकाश्यकेभ्यः पाटलिपुत्रकाः, इमे आढ्याः, इमे आढ्याः, अमी अमीभ्यः अतिशयेन आढ्याः = आढ्यतराः । अनेन तरप्प्र० → तर । जस् । इमे अभिरूपाः, इमे अभिरूपाः, अमी अमीभ्यः अतिशयेन अभिरूपाः = अभिरूपतराः । अनेन तरप्प्र० तर । स् । इमे सुकुमाराः (२), अमी अमीभ्यः अतिशयेन सुकुमाराः = सुकुमारतराः । अनेन तरप्प्र० तर । जस् । www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy