SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः ॥ अरजो रजः स्यात् = रजीस्यात् । 'ईश्च्वाववर्णस्या०' (४|३|१११) अ० [रजीकरोति, रजीभवति, रजीस्यात् ] अरजो रजः करोति = रजीकरोति । अरजो रजोभवति = रजीभवति । 'कृ - भ्वस्तिभ्यां कर्म-कर्तृभ्यां०' (७२ १२६) च्चिप्र० । अनेन सलुक् । ई० । 'अप्रयोगीत् ' (१|१|३७) च्चिलोपः । [विरजीकरोति, विरजीभवति, विरजीस्यात् ] विगतं रजो यस्य । अविरजसं विरजसं करोति = विरजीकरोति । अविरजो विरजोभवति = विरजीभवति । अविरजाः विरजाः स्यात् = विरजीस्यात् । 'कृ-भ्वस्तिभ्यां कर्म०' (७|२।१२६) च्चिप्र० । अनेन सलुक् । 'ईश्च्वाववर्णस्या०' (४।३।१११) अ० → ई० । 'अप्रयोगीत् ' (१।१।३७) च्चिलोप: । बहुवचनं तदन्तानामपि परिग्रहार्थम् ||छ || इसोर्बहुलम् ॥ ७।२।१२८ ॥ [ इसुसो: ] इस् च उस् च = इसुसौ, तयोः = इसुसोः । षष्ठी ओस् । [ बहुलम् ] बहुल प्रथमा सि । = [ सर्पीकरोति नवनीतम् ] असर्पिः सर्पिः करोति सर्पीकरोति नवनीतम् । 'कृभ्वस्तिभ्यां कर्म-कर्तृभ्यां प्रागतत्तत्त्वे च्विः' (७२ १२६) च्चिप्र० । अनेन सलुक् । 'दीर्घश्च्चि यङ् - यक्- क्येषु च ' ( ४ | ३ | १०८) दीर्घः । 'अप्रयोगीत्' (१।१।३७) च्चिलोपः । [[ धनूभवति वंश ] अधनुर्धनुर्भवति = धनूभवति । 'कृभ्वस्तिभ्यां०' (७/२/१२६) च्चिप्र० । अनेन सलुक् । 'दीर्घश्च्वि - यङ् - यक् - क्येषु च ' ( ४।३।१०८) दीर्घः । 'अप्रयोगीत्' ( १ । १ । ३७) च्चिलोपः । बहुलाधिकारादग्रेतनयोरुदाहरणयोः (सर्पिर्भवति, धनुर्भवति) अनेन सलुक् न भवति ॥ व्यञ्जनस्यान्त ईः ॥ ७।२।१२९ ॥ १५५ [ व्यञ्जनस्य ] व्यञ्जन षष्ठी ङस् । [ अन्तः ] अन्त प्रथमा सि । 'सो रुः' (२१/७२ ) स०र० । [ई] ई प्रथमा सि । [ दृषदीभवति शिला, दृषद्भवति ] अदृषद् दृषद्भवति दृषदीभवति शिला । 'कृ - भ्वस्तिभ्यां कर्म० ' ( ७२ १२६) च्चिप्र० । अनेन ई प्रायः । प्रथमा सि । 'अव्ययस्य' (१|१|३७) सिलुप् । दृषद्भवति । = [ समिधीभवति काष्ठम्, समिद्भवति ] असमित् समिद्भवति = समिधीभवति । 'कृभ्वस्तिभ्यां कर्म० ' ( ७२ १२६) च्चिप्र० । अनेन ई प्रायः । प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलुप् । समिद्भवति ॥छ । व्याप्तौ स्सात् ॥ ७।२।१३० ॥ [ व्याप्तौ ] व्याप्ति सप्तमी ङि । [स्सात्] सकारादिः सात् = स्सात् । प्रथमा सि । - वस्तिभ्यां कर्म-कर्तृभ्यां प्रागतत्तत्त्व इति वर्त्तते । प्रागतत्तत्वस्य कर्म चेद् व्याप्तिः सर्वात्मना द्रव्येणाभिसम्बन्धो भवति । द्विसकारपाठः षत्वनिषेधार्थः । Jain Education International [ अग्निसात् करोति काष्ठम्, अग्निसाद्भवति, अग्निसात् स्यात् ] सर्वं काष्ठं प्रागनग्निमग्निं करोति अग्निसात् करोति । अनग्निरग्निर्भवति अग्निसाद्भवति । अनग्निरग्निः स्यात् = अग्निसात् स्यात् । अनेन सात्प्र० । प्रथमा सि । 'अव्ययस्य' (३|२|७) सिलुप् । = For Personal & Private Use Only = www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy