SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । [दक्षिणपश्चार्द्धः, दक्षिणापरार्द्धः ] दक्षिणा चासौ अपरा च = दक्षिणापरा । 'सर्वादयोऽस्यादौ' ( ३।२२६१) पुंवत् । दक्षिणापरस्या अर्द्धः = दक्षिणपश्चार्द्धः । अनेन विकल्पेन अपरशब्दस्य " पश्च" देशः । १५२ [ उत्तरपश्चार्द्धः, उत्तरापरार्द्धः ] उत्तरा चासौ अपरा च = उत्तरापरा । 'सर्वादयोऽस्यादौ' (३।२२६१) पुंवत् । उत्तरापरस्या अर्द्ध: उत्तरपश्चार्द्धः । अनेन विकल्पेन अपरशब्दस्य " पश्च" देशः ॥छ || = कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां प्रागतत्तत्त्वे स्विः ॥ ७।२।१२६ ॥ [ कृभ्वस्तिभ्याम् ] भूश्च अस्तिश्च = भ्वस्ति, काश्च (का च) भ्वस्तिश्च (च) कृभ्वस्तिभ्याम् । तृतीया भ्याम् । [ कर्मकतृभ्याम् ] कर्म च कर्ता च = कर्मकर्तृणी, ताभ्याम् = कर्मकर्तृभ्याम् । पञ्चमी भ्याम् । [ प्रागतत्तत्त्वे ] न तद् मण्ड्यते । न सः = असः, अतस्य भावः = अतत्त्वम् । 'भावे त्व- तल्' (७/११५५) त्वप्र० । प्राक् पूर्वं तत्त्वं = प्रागतत्तत्त्वम्, तस्मिन् । अभूततद्भाव इत्यर्थः । अविद्यमानस्य विद्यमानत्वे इत्यर्थः । [च्विः ] च्चि प्रथमा सि । 'सो रु: ' (२१।७२ ) स०र० । द्रव्यस्य गुणक्रियाद्रव्यसम्बन्धसमूहविकारयोगे प्रागतत्तत्त्वमुदाहार्यम् । [ शुक्लीकरोति पटम् ] अशुक्लं शुक्लं करोति = शुक्लीकरोति पटम् । अनेन च्चिप्र० । 'ईश्च्चाववर्णस्याऽनव्ययस्य' (४|३|१११) अ० ई० । 'अप्रयोगीत्' ( १ । १ । ३७) विलोपः । प्रागशुक्लं शुक्लं करोतीत्यर्थः । [ शुक्लीक्रियते पटः ] अशुक्लः शुक्लः क्रियते = शुक्लीक्रियते पटः । अनेन च्चिप्र० । 'ईश्च्वाववर्णस्या० ' (४|३|१११) अ० ई० । 'अप्रयोगीत् ' (१|१| ३७) विलोपः । प्रागशुक्लः शुक्लः क्रियत इत्यर्थः । [ शुक्लीकरणम् ] अशुक्लस्य शुक्लस्य करणं = शुक्लीकरणम् । अनेन च्चिप्र० । 'ईश्च्वाववर्णस्या० ' ( ४ | ३|१११ ) अ० ई० । 'अप्रयोगीत् ' (१|१|३७) च्चिलोपः । = = [ शुक्लीभवति पट: ] अशुक्लः शुक्लः भवति शुक्लीभवति पटः । अनेन च्चिप्र० । 'ईश्च्वाववर्णस्या० ' (४|३|१११) अ० ई० । 'अप्रयोगीत् ' (१।१ । ३७) विलोपः । प्रागशुक्लः पट इदानीं शुक्लो भवतीत्यर्थः । Jain Education International कृभ्वस्तिनी, ताभ्याम् = [ शुक्लीभवनम् ] अशुक्लस्य शुक्लस्य भवनं = शुक्लीभवनम् । अनेन विप्र० । 'ईश्च्वाववर्णस्या० ' ( ४|३|१११ ) ई० । 'अप्रयोगीत् ' (१।१।३७) विलोपः । अ०→ [ शुक्लीस्यात् पटः ] अशुक्लः शुक्लः स्यात् शुक्लस्यात् पटः । अनेन च्चिप्र० । 'ईश्च्वाववर्णस्या०' (४|३|१११) अ० ई० । 'अप्रयोगीत् ' (१।१।३७) च्चिलोपः । प्रागशुक्लः पट इदानीं शुक्लः स्यादित्यर्थः । = कारकीकरोति । अनेन च्चिप्र० । [कारकीकरोति चैत्रम् ] अकारकं कारकं करोति [कारकीभवति ] अकारकः कारको भवति [कारकीस्याच्चैत्रः ] अकारकः कारकः स्यात् = कारकीस्याच्चैत्रः । अनेन च्चिप्र० । कारकीभवति । [ दण्डीकरोति चैत्रम् ] अदण्डिनं दण्डिनं करोति = दण्डीकरोति चैत्र: (त्रम्) । [ दण्डीभवति ] अदण्डी दण्डी भवति दण्डीभवति । = = = For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy