SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः ॥ १३९ [यथा] येन प्रकारेण = यथा । अनेन थाप्र० । 'आ द्वेरः' (२११।४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । [तथा] तेन प्रकारेण = तथा । अनेन थाप्र० । 'आ द्वेरः' (२।१४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । [उभयथा ] उभयेन प्रकारेण = उभयथा । अनेन थाप्र० । [अन्यथा ] अन्येन प्रकारेण = अन्यथा । अनेन थाप्र० । [अपरथा] अपरेण प्रकारेण = अपरथा । अनेन थाप्र० । [इतरथा] इतरेण प्रकारेण = इतरथा । अनेन थाप्र० । बहोस्तु परत्वात् 'संख्याया धा' (७२।१०४) इत्यनेन धाप्र० भवति ॥छ। कथमित्थम् ॥ ७२।१०३ ॥ [कथमित्थम् ] कथम् च इत्थम् च = कथमित्थम् । [कथम् ] केन प्रकारेण = कथम् । 'प्रकारे था' (७।२।१०२) इत्यस्य प्राप्तौ अनेन थम्प्र०-निपात्यते । [ इत्थम् ] अनेन एतेन वा प्रकारेण = इत्थम् । अनेन थम्प्र०-इदम्-एतदश्च "इत्"देशश्च निपात्यते ॥छ।। संख्याया धा ॥ ७।२।१०४ ॥ [संख्यायाः] संख्या पञ्चमी ङसि । [धा] धा प्रथमा सि । [एकधा] एकेन प्रकारेण = एकधा । . [द्विधा ] द्वाभ्यां प्रकाराभ्यां = द्विधा । [त्रिधा ] त्रिभिः प्रकारैः = त्रिधा । [चतुर्धा ] चतुभिः प्रकारैः = चतुर्धा । [पञ्चधा ] पञ्चभिः प्रकारैः = पञ्चधा । [बहुधा ] बहुभिः प्रकारैः = बहुधा । [गणधा ] गणेन प्रकारेण = गणधा । [कतिधा ] कतिभिः प्रकारेण(रैः) = कतिधा । [तावद्धा ] तावद्भिः प्रकारैः = तावद्धा । अनेन सर्वत्र धाप्र० ॥छ। विचाले च ॥ ७।२।१०५ ॥ [विचाले] विचलनं = विचालः । 'भावा-ऽकर्बोः' (५।३।१८) घप्र० → अ । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः, तस्मिन् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy