SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः ॥ १२५ [अस्यवामीयं सूक्तम् ] अस्यवामशब्दोऽत्र सूत्रे(क्ते) अस्ति = अस्यवामीयं सूक्तम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [कयानश्चित्रीयं साम] कयानश्चित्रशब्दोऽत्र साम्न्यस्ति = कयानश्चित्रीयं साम । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । यत एवामी अखण्डा अनुकरणशब्दा अत एव तेनैवानुकार्येणार्थेनार्थवत्त्वान्नामत्वे प्रथमान्ततायां प्रथमान्तात् प्रत्यय उत्पन्नः, अन्यथा वाक्यत्वात् अस्यवामशब्दात् प्रथमा न स्यात् । सूक्त-साम्नी ग्रन्थविशेषौ ॥छ।। लुब वाऽध्याया-ऽनुवाके ॥ ७।२७२ ॥ [लुप्] लुप् प्रथमा सि । [वा] वा प्रथमा सि । [अध्यायाऽनुवाके] अध्यायश्च अनुवाकश्च = अध्यायाऽनुवाकम्, तस्मिन् । अनु 'बॅग्क् व्यक्तायां वाचि' (११२५) ब्रू । अनुब्रवीति = अनुवाकः । 'अच्' (५।१।४९) अच्प्र० → अ । 'न्य ङ्कद्ग-मेघाऽऽदयः' (४।१।११२) अनुवाकनिपात्यते । अध्याया-ऽनुवाकयोरर्थान्तरत्वात् पूर्वेण न प्राप्नोतीत्याह-अध्यायाऽनुवाकौ ग्रन्थविशेषौ । . [गर्दभाण्डः, गर्दभाण्डीयोऽध्यायोऽनुवाको वा] गर्दभाण्डशब्दोऽस्मिन्नध्यायेऽनुवाके वास्तीति गर्दभाण्डः, गर्दभाण्डीयोऽध्यायोऽनुवाको वा । अनेन ईयप्र० आनीयते-लुप्यते विकल्पेन । [दीर्घजीवितः, दीर्घजीवितीयः] दीर्घजीवितशब्दोऽस्मिन्नध्यायेऽनुवाके वास्तीति दीर्घजीवितः, दीर्घजीवितीयः । . अनेन ईयप्र०-लुप् च विकल्पेन । [पलितस्तम्भः, पलितस्तम्भीयः] पलितस्तम्भशब्दोऽस्मिन्नध्यायेऽनुवाके वास्तीति पलितस्तम्भः, पलितस्तम्भीयः । अनेन ईयप्र०-लुप् च वा । __[पलितः, पलितीयः] पलितशब्दोऽस्मिन्नध्यायेऽनुवाके वास्तीति पलितः, पलितीयः । अनेन ईयप्र० आनीयतेविकल्पेन लुप्यते च । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [स्तम्भः, स्तम्भीयः] स्तम्भशब्दोऽस्मिन्नध्यायेऽनुवाके वास्तीति स्तम्भः, स्तम्भीयः । अनेन ईयप्र० आनीयतेविकल्पेन लप्यते च । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [उच्छिष्टः, उच्छिष्टीयः] उच्छिष्टशब्दोऽस्मिन्नध्यायेऽनुवाके वास्तीति उच्छिष्टः, उच्छिष्टीयः । अनेन ईयप्र० आनीयतेविकल्पेन लुप्यते च । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । __[ द्रुमपुष्पः, द्रुमपुष्पीयः] द्रुमपुष्पशब्दोऽस्मिन्नध्यायेऽनुवाके वास्तीति द्रुमपुष्पः, द्रुमषुप्पीयः । अनेन ईयप्र० आनीयते-विकल्पेन लुप्यते च । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।। विमुक्तादेरण् ॥ ७।२७३ ॥ [विमुक्तादेः] विमुक्त आदिर्यस्य सः = विमुक्तादिः, तस्मात् । [अण्] अण् प्रथमा सि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy