SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः ॥ १२१ [ऊरुबली] ऊर्वोर्बलम् = ऊरुबलम्, तदस्यास्ति = ऊरुबली । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ। मन्-मा-ऽब्जादेर्नाम्नि ॥ ७।२।६७ ॥ [मन्माऽब्जादेः] मन् च मश्च अब्जश्च = मन्माऽब्जाः । मन्माऽब्जा आदयो यस्य सः = मन्माऽब्जादिः, तस्मात् । [नाम्नि] नामन् सप्तमी ङि । [दामिनी] जदों अवखण्डने(छेदने)' (११४८) दो । 'आत् सन्ध्यक्षरस्य' (४।२।१) दा । द्यति-खण्डयति दुर्गन्धतामिति दाम । 'मन्' (उणा० ९११) इत्यनेन मन्प्र० । दाम अस्या अस्ति = दामिनी । अनेन इन्प्र० । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् । 'स्त्रियां नृतोऽस्वस्रादेर्डीः' (२।४।१) ङी ।। [सामिनी] 'षोंच अन्तकर्मणि' (१९५०) षो । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सो । स्यति-अन्तंनयति पापमिति साम । 'स्यतेरी च वा' (उणा० ९१५) मन्प्र० । साम अस्यास्ति = सामिनी । अनेन इन्प्र० । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् । 'स्त्रियां नृतोऽस्वस्रादेर्जी:' (२।४।१) ङी । [प्रथिमिनी] पृथु । पृथोर्भावः = प्रथिमा । 'पृथ्वादेरिमन् वा' (७१५८) इमनप्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वरादिलोपः । 'पृथु-मृदु-भृश-कृश-दृढ-परिवृढस्य ऋतो रः' (७।४।३९) ऋकारस्य रत्वम् क्रियते । प्रथिमा अस्यामस्ति = प्रथिमिनी । अनेन इन्प्र० । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् । 'स्त्रियां नृतोऽस्व०' (२।४।१) ङी। . [महिमिनी] महत् । महतो भावः = महिमा । 'पृथ्वादेरिमन् वा' (७।१।५८) इमन्प्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अत्लुक् । महिमा अस्यामस्ति = महिमिनी । अनेन इन्प्र० । 'स्त्रियां नृतोऽस्वस्रादे8:' (२।४।१) ङी । [वर्मिणी] वर्मन् । 'वर्म-सन्नाहोऽस्यामस्ति = वर्मिणी । अनेन इन्प्र० । 'नोऽपदस्य तद्धिते' (७४।६१) अन्लुक् । 'स्त्रियां०' (२।४।१) ङी । [कर्मिणी] कर्मन् । कर्माण्यस्यां सन्ति = कर्मिणी । अनेन इन्प्र० । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् । 'स्त्रियां०' (२।४।१) ङी। मान्ता - [प्रथमिनी] प्रथमं वयोऽस्यास्ति = प्रथमिनी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'स्त्रियां नृतो०' (२।४।१) ङी। [भामिनी] भाम: = क्रोधोऽस्यास्ति = भामिनी । अनेन इन्प्र० । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । 'स्त्रियां नृतोऽस्वस्रादे8:' (२।४।१) ङी। [कामिनी] कामोऽस्यास्ति = कामिनी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'स्त्रियां नृतोऽस्व०' (२।४।१) ङी। [यामिनी] यामः-प्रहरोऽस्यामस्ति = यामिनी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'स्त्रियां नृतोऽस्व०' (२।४।१) ङी । [सोमिनी] 'धूग्ट् अभिषवे' (१२८६) षु । 'ष: सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सु । सुनोतीति सोमः । 'अर्तीरि-स्तु-सु-हु-सृ-घृ-धृ-श-क्षि-यक्षि-भा-वा-व्याधा-पाया-वलि-पदि-नीभ्यो मः' (उणा० ३३८) मप्र० । 'सोमोऽस्यामस्ति = सोमिनी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'स्त्रियां नृतोऽस्व०' (२४|१) ङी । टि० दो अवखण्डने इति काशकृत्स्रक्षीरस्वामिनौ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy