SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ योगबिन्दु सूत्र : ३८६-३८७-३८८-३८९-३९० तस्येति ॥ ३८६ ॥ अथ जपस्यैव कालमानमाह यथाप्रतिज्ञमस्येह, कालमानं प्रकीर्तितम् । अतो ह्यकरणेऽप्यत्र, भाववृत्तिं विदुर्बुधाः ॥३८७ ॥ 'यथाप्रतिज्ञं' यस्य यावती प्रतिज्ञा तदनतिक्रमेण । अस्य जपस्य इह विचारे 'कालमानं' द्विघटिकादिरूपं प्रकीर्तितं 'अतो हि' प्रतिज्ञाया एवाभिग्रहरूपाया: ‘अकरणेऽपि' प्रतिज्ञातकालादन्यत्र जपस्य किं पुनः करण इत्यपिशब्दार्थः । अत्र जपे 'भाववृत्तिं ' - मनोवृत्तिरूपां विदुः - 'जानन्ति बुधा इति ॥३८७ ॥ एतदेव भावयति २६३ मुनीन्दैः शस्यते तेन यत्नतोऽभिग्रहः शुभः । सदाऽतो भावतो धर्मः, क्रियाकाले क्रियोद्भवः ॥ ३८८ ॥ मुनीन्द्रैः - मुनिवृन्दारकैः शस्यते - श्लाघ्यते तेनाऽकरणकालेऽपि शुभभाववृत्तिलक्षणेन हेतुना यत्नतो - यत्नात् 'अभिग्रहः शुभः ' शुभार्थविषयः कुतो यतः 'सदा'- सर्वकालं अतो-ऽभिग्रहात् भावतः परिणामशुद्धेः धर्मः - शुभबन्धरूपः । क्रियाकाले ऽभिग्रहानुष्ठानलक्षणे क्रियोद्भवः धर्मः ॥ ३८८ ॥ अध्यात्म एव मतान्तरमाह स्वौचित्यालोचनं सम्यक् ततो धर्मप्रवर्तनम् । आत्मसम्प्रेक्षणं चैव तदेतदपरे जगुः ॥ ३८९ ॥ 'स्वौचित्यालोचनं' निजयोग्यतापर्यालोचनं सम्यग् - यथावत्प्रथमम् । ततस्तदनन्तरं धर्मे - चैत्यवन्दनाद्यनुष्ठानरूपे प्रवर्तनं कार्यम् 'आत्मसम्प्रेक्षणं चैव' वक्ष्यमाणं किंमित्याह तत्-अध्यात्मं एतत्-त्रितयं अपरे - शास्त्रकारा जगुः ऊचुरिति ॥ ३८९ ॥ अथैतदेव क्रमेण व्याचष्टे Jain Education International योगेभ्यो जनवादाच्च, लिङ्गेभ्योऽथ यथागमम् । स्वौचित्यालोचनं प्राहुर्योगमार्गकृतश्रमाः ॥ ३९०॥ योगेभ्यः कायवाङ्मनोव्यापारेभ्यः प्रशस्तगमनशुभभाषणनिरवद्यचिन्तनस्वभावेभ्य: जनवादाद्-लोकप्रवादरूपात् 'चः 'समुच्चये लिङ्गेभ्यो-निमित्तेभ्यः अथ १. जानन्ते - A; २. लक्षणे पुनः क्रियो - A.B.; For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy