SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ -२४४ योगबिन्दु सूत्र : ३२१-३२-३२३-३२४-३२५ अथानयोः पुनरपि स्वरूपमाह व्यापारमात्रात्फलदं, निष्फलं महतोऽपि च । . अतो यत्कर्म तद्देवं, चित्रं ज्ञेयं हिताहितम् ॥३२२॥ ... व्यापारमात्रात्-तुच्छादपि व्यापारात् 'फलदं'-स्वफलप्रदायि, निष्फलंफलविकलं क्वचित्तथाविधकालक्षेत्रादिबलवैकल्यात् 'महतोऽपि च अतः' पुरुषकारात् 'यत्कर्म तदैवं' दैवसंज्ञम् 'चित्र' नानारूपं ज्ञेयं हिताहितंशुभाशुभ रूपम् ॥३२२॥ एवं पुरुषकारस्तु, व्यापारबहुलस्तथा । फलहेतुर्नियोगेन, ज्ञेयो जन्मान्तरेऽपि हि ॥३२३॥ एवं-कर्मवत् पुरुषकारस्तु-पुरुषकारोऽपि व्यापारबहुलो-व्यापारो बहुलो भूयान् कर्मापेक्षया यत्र स तथा । तथा' इति समुच्चये फलहेतुः-फलनिमित्तं, नियोगेन-निश्चयेन ज्ञेयो जन्मान्तरेऽपि हि' न केवलमिह भव इत्यपिहिशब्दार्थः । यथा हि पुरुषकार इह तत्तच्चित्रफल: प्रत्यक्षत एवोपलभ्यते तथा जन्मान्तरेऽप्यसौ तथाविधफलहेतुतया ज्ञातव्यः, तत्तद्वापारोपार्जितकर्मणः प्रेत्यफलमदत्त्वापि निवृत्त्यभावादिति ॥३२३॥ 'उपसंहारमाह अन्योन्यसंश्रयावेवं, द्वावप्येतौ विचक्षणैः । उक्तावन्यैस्तु कर्मैव, केवलं कालभेदतः ॥३२४॥ अन्योन्यसंश्रयौ-परस्परो'पष्टम्भौ एवमुक्तक्रमेण द्वावप्येतौ-दैवपुरुषकारौ 'विचक्षणैः-विपश्चिद्भिः उक्तौ-भणितौ फलहेतुतयेति । अत्रैव मतान्तरमाह 'अन्यैस्तु' अस्मद्विलक्षणैर्वादिभिः सांख्यैरित्यर्थः 'कर्मैव' प्रधानापराभिधानं, 'केवलं' पुरुषकारशून्यं 'फलदं' इत्यनुवर्तते 'कालभेदतः'-कालविशेषमासाद्योक्तम् ॥३२४॥ अथैतनिधानायाह दैवमात्मकृतं विद्यात् कर्म यत्पौर्वदेहिकम् । स्मृतः पुरुषकारस्तु, क्रियते यदिहापरम् ॥३२५॥ 'दैवमात्मकृतं'-मिथ्यात्वादिभिर्हेतुभिर्जीवेन विहितम् विद्यात्-जानीयात् १. रूपं एवमित्यादि-B.C. २. उप रह नाह-A; ३. पष्टब्धौ-A; Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy