SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ योगबिन्दु सूत्र : १६८-१६९-१७०-१७१-१७२ 'मल उच्यत' इति ॥१६८॥ एनामेव तन्त्रान्तरमताविष्करणेन समर्थयमान आह दिदृक्षाभवबीजादिशब्दवाच्या तथा तथा ।। इष्टा चान्यैरपि ह्येषा मुक्तिमार्गावलम्बिभिः ॥१६९॥ पुरुषस्य प्रकृतिविकारान्द्रष्टुमिच्छा 'दिदृक्षा' सांख्यानां, ‘भवबीजं' शैवानां, भ्रान्तिरूपाऽविद्या वेदान्तिकानां, अनादिक्लेशरूपा 'वासना' सौगतानां, ततो दिदृक्षाभवबीजादिभिः शब्दैरुच्यते या सा तथा तथा तेन तेन दर्शनभेदप्रकारेण इष्टा चाभिमतैव । अन्यैरप्यस्मद्विलक्षणैः किं पुनरस्माभिरित्यपिहिशब्दार्थः, एषा-कर्मबन्धयोग्यता मुक्तिमार्गावलम्बिभिर्निर्वृतिपुरपथप्रस्थितैरिति ॥१६९ ॥ एवं सति यत्सिद्धं तदाह एवं चापगमोऽप्यस्याः प्रत्यावर्तं सुनीतितः । स्थित एव तदल्पत्वे भावशुद्धिरपि ध्रुवा ॥१७०॥ एवं चास्यां च कर्मबन्धयोग्यतायां सत्याम् 'अपगमोऽपि'-व्यावृत्तिरूपोऽनपगमस्तावदस्त्येवेत्यपिशब्दार्थः अस्या योग्यतायाः, प्रत्यावर्त प्रतिपुद्गलपरावर्त नैकस्मिन्नेव चरमावर्त इत्यर्थः 'सुनीतितो'-दोषाणां क्रमहासलक्षणात्सन्यायात् स्थित एव प्रतिष्ठित एव, ततस्तदल्पत्वे-मलाल्पत्वे भावशुद्धिरपि'-परिणतिनिर्मलता, किं पुनः प्रत्यावर्तं मलापगम इत्यपिशब्दार्थः ध्रुवा-निश्चिता स्थिता, अन्यथा मलापगमस्यैवाभावादिति ॥१७० ॥ ततः शुभमनुष्ठानं सर्वमेव हि देहिनाम् । विनिवृत्ताग्रहत्वेन तथाबन्धेऽपि तत्त्वतः ॥१७१॥ ___ ततो भावशुद्धेः सकाशात्, शुभं श्रेयस्कार्यनुष्ठानं धर्मार्थादिगोचरं सर्वमेव' "हि' स्फुटं देहिनां-शरीरभाजाम् ।केनेत्याह विनिवृत्ताग्रहत्वेन' व्यावृत्तात्यन्तवितथाभिनिवेशभावेन तथाबन्धेऽपि-तत्प्रकाराल्पाल्पतरबन्धसद्भावे किं पुनस्तस्याप्यभाव इत्यपिशब्दार्थः, तत्त्वतो-निश्चयवृत्त्या जायत इति ॥१७१॥ नात एवाणवस्तस्य प्राग्वत्संक्लेशहेतवः । . तथान्तस्तत्त्वसंशुद्धेदनशुभभावतः ॥१७२॥ १. चास्या यावत् कर्म-A; Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy