SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ योगदृष्टिसमुच्ययः सूत्र - १३८-१३९-१४०-१४१-१४२ १११ निर्मूलेत्याह- तन्मूलैषापि- सर्वज्ञदेशनामूलैषापि तत्त्वतः परमार्थेन, तत्प्रवचनानुसारतस्तथाप्रवृत्तेरिति ॥१३८॥ 'प्रकृते ऋषिभ्यो योजनमाह तदभिप्रायमज्ञात्वा, न ततोऽर्वाग्दृशां सताम्। युज्यते तत्प्रतिक्षेपो, महानर्थकरः परः ॥१३९॥ तदभिप्रायं-सर्वज्ञाभिप्रायं अज्ञात्वा, न ततः कारणात् अर्वाग्दृशां सतां प्रमातृणाम् किमित्याह युज्यते तत्प्रतिक्षेपः सर्वज्ञप्रतिक्षेपः, किंविशिष्ट इत्याह 'महानर्थकरः परः' महानर्थकरणशीलः प्रधान इति ॥१३९ ॥ इहैव निदर्शनमाह निशानाथप्रतिक्षेपो, यथाऽन्धानामसङ्गतः। तद्भेदपरिकल्पश्च, तथैवाग्दृिशामयम् ॥ १४०॥ निशानाथप्रतिक्षेपश्चन्द्रप्रतिक्षेपः यथाऽन्धानां-चक्षुर्विकलानां, असङ्गतो नीत्या, तद्भेदपरिकल्पश्च-निशानाथभेदपरिकल्पश्च वक्रचतुरस्रत्वादिः, तथैवाग्दृिशांछद्मस्थानाम् अयं सर्वज्ञप्रतिक्षेप: तद्भेदपरिकल्पश्चासङ्गत इति ॥१४०॥ किञ्च न युज्यते प्रतिक्षेपः, सामान्यस्यापि तत् सताम्। - आर्यापवादस्तु पुनर्जिह्मच्छेदाधिको मतः॥१४१॥ न युज्यते प्रतिक्षेपो-निराकरणरूप: सामान्यस्यापि कस्यचित्पुरुषादेः, तत्तस्मात् सतां-मुनीनाम् आर्यापवादस्तु पुनः-सर्वज्ञपरिभवः इत्यर्थः किमित्याह जिह्वाच्छेदाधिको मतः-तथाविधप्रत्यपायभावेन ॥ १४१॥ किञ्च, 'कुदृष्ट्यादिवन्नो सन्तो, भाषन्ते प्रायशः क्वचित् । ___ निश्चितं सारवच्चैव, किन्तु सत्त्वार्थकृत्सदा ॥ १४२॥ कुदृष्ट्यादिवत्कुत्स्यमित्यादि, न सन्तो-मुनयो, भाषन्ते (प्रायश:प्रायेण) क्वचित् कथं तर्हि भाषन्त इत्याह निश्चितं- असन्दिग्धं, सारवच्चैव नापार्थकं किन्तु सत्त्वार्थकृत्- परार्थकरणशीलं सदा भाषन्ते ॥१४२॥ १. प्रकृतयोजनमाह - ता. । २. कुदृष्टादि च नो सन्तो - भ. पा. ता. । ३. कुदृष्टादि च कु... भ. पा. कुदृष्टादि च कुदृष्टं कुश्रुतं कुज्ञातमित्या-ता. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy