SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १०२ योगदृष्टिसमुच्चय-सूत्र : १००-१०१-१०२-१०३-१०४ एतत्प्रधानः सच्छ्राद्धः शीलवान् योगतत्परः । जानात्यतीन्द्रियानांस्तथा चाह महामतिः ॥१०॥ एतत्प्रधान इत्यागमप्रधानः, सच्छ्राद्धः-प्राज्ञः, शीलवान् परद्रोहविरतिमान्, योगतत्परः- सदा तदभियुक्तः, एवम्भूतः, सन् जानात्यतीन्द्रियानर्थान् धर्मादीन् । तथा चाह महामतिः पतञ्जलिः ॥१००॥ किमित्याह आगमेनानुमानेन योगाभ्यासरसेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते तत्त्वमुत्तमम् ॥१०१॥ आगमेनाप्तवचनेन लक्षणेन, अनुमानेन-लिङ्गाल्लिङ्गिज्ञानरूपेण, योगाभ्यासरसेन च विहितानुष्ठानात्मकेन त्रिधा प्रकल्पयन् प्रज्ञामुक्तक्रमेणैव, अन्यथा हि प्रवृत्त्यसिद्धेः, किमित्याह-लभते तत्त्वमुत्तमं पापसंमोहनिवृत्त्या श्रुतादिभेदेन ॥१०१॥ अमुमेवार्थमाह न तत्त्वतो भिन्नमताः सर्वज्ञा बहवो यतः । मोहस्तदधिमुक्तीनां तद्भेदाश्रयणं ततः ॥१०२॥ न तत्त्वतः परमार्थेन, भिन्नमता भिन्नाभिप्रायाः, सर्वज्ञा बहवो यतो यस्मात् । मोहस्तदधिमुक्तीनां सर्वा(र्वज्ञा)तिशयश्राद्धानां, तद्भेदाश्रयणं सर्वज्ञभेदाङ्गीकरणं, ततस्तस्मादिति ॥१०२॥ कथमित्याह सर्वज्ञो नाम यः कश्चित्पारमार्थिक एव हि । स एक एव सर्वत्र व्यक्तिभेदेऽपि तत्त्वतः ॥१०३॥ सर्वज्ञो नाम यः कश्चिदर्हदादिः, पारमार्थिक एव हि निरुपचरितः स एक एव सर्वत्र सर्वज्ञत्वेन 'व्यक्तिभेदेऽपि तत्त्वतः' ऋषभादिलक्षणे सति ।।१०३॥ प्रतिपत्तिस्ततस्तस्य सामान्येनैव यावताम् । ते सर्वेऽपि तमापन्ना इति न्यायगतिः परा ॥१०४॥ प्रतिपत्तिः ततस्तस्य- सर्वज्ञस्य सामान्येनैव यावतां-तन्त्रान्तरीयाणामपि, ते सर्वेऽपि तमापन्नाः सर्वकं मुख्य मेवेति न्यायगतिः परा, तमन्तरेण १. अन्यथेह - ता. । २. अधिमुक्तिः=श्रद्धा । ३. मेव च इति-पा. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy