SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ योगदृष्टिसमुच्चय-सूत्र : ९१-९२ त्मक: चैष गोमयपायसादिविकल्पनेन कुतर्क:-उक्तलक्षणः, किमनेन तत्न किश्चिदित्यर्थः ॥१०॥ किं च जातिप्रायश्च सर्वोयं, प्रतीतिफलबाधितः । हस्ती व्यापादयत्युक्तौ, प्राप्ताऽप्राप्तविकल्पवत् ॥११॥ जातिप्रायश्च-दूषणाभासप्रायश्च सर्वोऽयं कुतर्कः प्रतीतिफलबाधित इति कृत्वा, एतदेवाह-हस्ती व्यापादयत्युक्तौ- मेण्ठेन, किमिवेत्याह प्राप्ताप्राप्तविकल्पवत् इति। कश्चिनैयायिकश्छात्रः कुतश्चिदागच्छन् अवशीभूतमत्तहस्त्यारूढेन केनचिदुक्तः, भोः । भोः ! त्वरितमपसरः हस्ती व्यापादयति इति च । तथाऽपरिणतन्यायशास्त्र आह रे रे बठर ! किमेवं युक्तिबाह्यं प्रलपसि । तथाहि-"किमयं प्राप्तं व्यापादयति किं वाऽप्राप्तमिति ? आद्यपक्षे भवत एव व्यापत्तिप्रसङ्गः, प्राप्तिभावात्-[द्वितीये त्रिभुवनस्य, अप्राप्त्यविशेषात्]" एवं यावदाह तावद्धस्तिना गृहीत: स, कथमपि मेण्ठेन मोचित इति । जातिप्रायता(च) सर्वत्र भिन्नार्थग्रहणस्वभावसंवेदनवेदने तद्गताकारविकल्पनस्यैवम्प्रायत्वादिति चर्चितमन्यत्र ॥ ९१ ॥ किञ्च - स्वभावोत्तरपर्यन्त, एषोऽसावपि तत्त्वतः । नार्वाग्दृग्गोचरो न्यायादन्यथाऽन्येन कल्पितः ॥ ९२॥ स्वभावोत्तरपर्यन्त एष कुतर्कः, अत्र च वस्तुस्वभावैरुत्तरं वाच्यमिति वचनात् एवमग्निर्दहत्याप: क्लेदयन्तीति स्वभाव एषामिति । असावपि स्वभावः तत्त्वत: परमार्थेन नार्वाग्दृग्गोचरो-न छद्मस्थविषय: न्यायाद् न्यायेन परप्रसिद्धेन किम्भूतः सनित्याह-अन्यथा प्रकारान्तरेण, अन्येन प्रतिवादिना, कल्पित:सन्निति । तथा हि-अथ वस्तुस्वभावैरुत्तरं वाच्यमिति सर्वत्रैव तथा(न) तत्तत्सिद्धौ वक्तुं पार्यते । कथम् ? येन तदर्थक्रियाकारणस्वभावस्तेन तां करोति न पुनः क्षणिकतया, तस्याः सर्वभावेष्वेवाभ्युपगमात् १. द्वितीय पक्षे तु त्रैलोक्यस्य,अप्राप्त्यविशेषात्" - ता. । २. अत्र-तान ३. तत्त्वसिद्धौ - ता. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy