SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ६२ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः अङ्गीकरोमि जडधीरपि संस्तवाय, भेद - प्रभेदरुचिरं रुचिराङ्गसङ्गी ॥२॥ [ वसन्ततिलका ] अहं महं प्रौढतमं तमन्वहं निर्माय निर्माय - मनाः सनातनाः आदौ मतिज्ञानभिदा उदाहरे, मोहप्ररोहं निखिलं यथा हरे ||३|| [ उपजातिः ] अवग्रहेहा-व्यवसाय-धारणाः, षोढा भवेयुर्हदयेन्द्रियैस्तथा । चतुर्विधो लोचनमानसे विना, स्याद् व्यञ्जनाऽवग्रह इन्द्रियैः परैः ||४|| मुदा सदाष्टा- द्विमिति स्वभेदमेदस्वलं निश्चलचित्तवृत्तिः । प्राणौमि संसारदवे सदम्भःसमं मतिज्ञानमिदं विदम्भः ||५|| जैनेश्वरस्य न कदाऽपि विनश्वरस्य, सम्यक् श्रुतस्य जगतीतलविश्रुतस्य । एतान् कृतान्तरतमोभरखेदभेदान्, भेदांश्चतुर्दशमुदा समुदाहरामि || ६ || [ वसन्ततिलका ] गमिकमङ्गनिबद्धमनक्षरश्रुतमनादिसर्पयवसानकम् । स्मरत सम्यगसञ्ज्ञिभिदा इमास्तदितरा मिलिताश्च चतुर्दशा ||७|| [द्रुत०] अथाऽवधिज्ञानमविज्ञशेखरः, प्रव्यक्तभक्त्या मुखरीकृतः परम् । स्तवे नुवेऽलं किल रूपिभावाऽवभासनाकौशलहेलिलीलम् ॥८॥ [ उप०] अनुगाम्यथ वर्धमानक, प्रतिपाती च तथेतरे त्रयः । इति षड्विधमानुमोऽवधिं, विधिना बन्धुरलब्धिसेवधिम् ||९|| [प्रबोधिता] ऋजु-विपुलमतिभ्यां यद्भिदाभ्यामुभाभ्यामखिलमनुजलोके सञ्ज्ञिपञ्चेन्द्रियाणाम् । १. अष्टाविंशति इत्यर्थः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy