SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - 'क' • २६३ सागरोपमायुः । ततोऽष्टमविजये च भूत्वा चक्रधरः श्रीवज्रनाभनामा । तत्र च विंशतिस्थानानि सेवित्वा 'निबन्धिउति-उपाय॑ तीर्थंकरनामकर्म । यदुक्तं - 'अरहंत १ सिद्ध २ पवयण ३ गुरु ४ थेर ५ बहुस्सुए ६ तवस्सी । सुवच्छल्लया य एसिं ७ अभिक्खनाणोवओगोय ८ ॥१॥ दंसण ९ विणए १० आवस्सए य ११ सीलव्वए निरवइयारे १२ । खणलव १३ तव १४ च्चियाए १५ वेयावच्चे १६ समाही य १७ ॥२॥ अपुव्वनाणगहणे १८ सुयभत्ती १९ पवयणपभावणया २० । एएहि कारणेहिं तित्थयरत्तं लहइ जीवो ॥३॥ इति [आवश्यकनियुक्ति १७९-१८१] अत्र 'गुरु'त्ति गुरुश्चतुर्विधः सम्यक्त्वगुरुः १ दीक्षागुरुः २ उपस्थापनागुरुः ३ श्रुतुगुरुः ४ । 'वच्छल्लये'ति - अनुरागः यथावस्थितगुणोत्कीर्तनाद्यनुरूपया वत्सलतया। ‘सीलव्वए'त्ति-शीलान्युत्तरगुणाः, व्रतानि मूलगुणास्तेषु निरतिचारः । 'खणलव'त्ति-क्षणलवादिषु संवेगभावनाध्यानाऽऽसेवना। 'च्चियाए'त्ति-त्यागश्च यतिजने भेषजपथ्यादिदानम् । 'समाहि'त्ति-समाधिर्गुर्वादीनां कार्यकरणद्वारेण स्वस्थताऽऽपादनम् । 'पवयणपभावणय'त्ति-यथाशक्त्या मार्गदेशनादिभिः शासनौन्नत्यसम्पादनं प्रभावना । एभिस्तीर्थङ्करत्वं बध्यते, शेषं स्पष्टम् । प्रव्रज्यां पुनश्चतुर्दशपूर्वलक्षाणि प्रतिपाल्य पादपोपगमनाऽनशनं प्रतिपद्य चेत्यपि ज्ञेयम् ॥६॥ ततः सर्वार्थसिद्धे विमाने सुरवरश्रियं त्रयस्त्रिंशत्तराणि सागरोपमाणि अनुभूय तृतीयाऽऽरकस्य चतुरशीति पूर्वलक्षसहस्रवर्षेषु नवाशीतिपक्षाधिकेषु शेषेषु सत्सु इक्ष्वाकुभुमौ आषाढे मासे प्रथमचतुर्थ्यामवतीर्णस्त्वमिति गाथात्रयार्थः ॥७॥ ... अथ भगवदवतारे यदभूत् तदाहुःमरुदेवि-नाभिनंदण ! तिनाणलोयणमिहागयं सहसा । चउदसवरसुमिणुत्तं पि तं निवेईसु सयलिंदा ॥८॥ मरुदेवी-नाभेः पत्नी, नाभिः सप्तमः कुलकरः, तयोर्नन्दनः, तत्सम्बोधनं हे मरुदेवीनाभिनन्दन ! त्रिज्ञानलोचनं-मतिश्रुतावधिरूपप्रतिपूर्णज्ञानत्रयेण लोचनंदर्शनं यस्य स तथा तं ज्ञानत्रयोपेतमित्यर्थः । उक्तं च Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy