SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - 'क'. २५५ १७. श्रीकुन्थुनाथस्तवः ॥ कुन्थुनाथ ! जगन्नाथ !, सर्वथाऽपाकृथा यथा । मोहमल्लं तथोपायं, कृपया मम दर्शय ॥१॥ त्रिलोकीगञ्जनं वीरं, यया शक्त्यावधी: स्मरम्। प्रसद्य सत्वरं यच्छ, तज्जये मम तां प्रभो ! ॥२॥ चूर्णीकृतानि कर्माणि, भवता येन लीलया। तद्ध्यानं कृपया नाथ !, ममापि वितराऽधुना ॥३॥ शिवश्रीकण्ठशृङ्गारहारतां भगवन्नगाः । यया समतया मे तां, कृपां कृत्वा सुलम्भय ॥४॥ यत्सुखं त्वं शिवावासे, स्वामिन्ननुभवन्नसि । तस्य मे निजभृत्यस्य, संविभागं कुरु प्रभो ! ॥५॥ १८. श्रीअरनाथस्तवः ॥ अरनाथ ! सदा कुर्यात् तवाज्ञोल्लङ्घनं न यः । शीर्षे शेषेव तस्याज्ञां मरुताऽपि विधीयते ॥१॥ त्वदाज्ञा रहितो देही, न सुखं न च सम्पदः । न यशो न च नाकित्वं, नाऽपवर्ग समाश्रयेत् ॥२॥ • तीर्थसेवा क्षमा ध्यानं, दमो दानं दया तपः । सर्वं तवाज्ञया हीनं, मुक्तये सर्वथा न हि ॥३॥ कारारूपनिगोदेषु, सततं भवदाज्ञया । वजितो दुःखितो दीनोऽनन्तकालं स्थितोस्म्यहम् ॥४॥ मयेह भ्रमताऽवापि, त्वदाज्ञा कर्मलाघवात् । तथा कुरु यथा नाथ ! स्यात् तस्याः खण्डनं न मे ॥५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy