SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ नेमिजिनस्तुतिः • २०१ निर्वृतेर्मुक्तेर्वृत्तिः-स्वीकारो यस्य सः, तस्य सम्बोधने - हे दीक्षान्यक्षवृत्तिनिर्वृतिवृते ! त्वं जय । कृता रैवतगिरिराजस्य रैवातचलस्य तीर्थतायास्तीर्थरूपस्य विश्रुति:ख्यातिर्येन सः, तस्य सम्बोधने - हे कृतरैवतगिरिराजतीर्थताविश्रुते ! । संश्रितास्त्वत्शरणं प्रतिप्राप्ता ये सत्त्वाः प्राणिनस्तेषां समीहितस्यमनोभिलषितफलस्य दायको यः सः, तस्य सम्बोधने - हे संश्रितसत्त्वसमीहितदायक ! त्वं जय | दुर्गतिरूपो यो दवो-वनं तस्य यो लव- उच्छेदनं तत्र नेमिरिव चक्रधारा इव नेमिजिननायको यः सः, तस्य सम्बोधने हे दुर्गतिदवलवनेमिनेमिजिननायक ! ||५|| पञ्चभिः कुलकमिदम् ॥ सुदिनमहो मम चाऽद्य तथा सुदशा धव !, दर्शनमिह यदभूत्किल मेऽप्यधिनस्तव । सिद्धं चिन्तितकार्यमार्य सफला जनिरजनिष्टचरीदमन्दभन्दकन्दावनी ॥६॥ । सुदिनमिति हे धव ! - हे स्वामिन् ! अहो इति आश्चर्य (र्ये) । - किल इति सम्भावनायाम् । मे ममाऽपि अघिनः - पापात्मन इह जन्मनि यत् तव दर्शनमभूत् तत् तस्मात् कारणात् मम चाऽद्यतमं सुदिनं सुदशा च वर्तते इति । हे आर्य ! मम चिन्तितकार्यमपि सिद्धं जातम् । मम जनिर्जन्म उत्पत्तिरपि सफला-फलवती जाता । पुनः चरीदमन्दो देशविरतिरूपो यो भन्दः, कल्पद्रुमस्तस्य यो कन्दस्तस्य अवनिरिव क्षितिरिव क्षितिर्देशविरतिरूपाङ्करोपि अजनिष्ट-प्रादुरभूत् मे मम हृत्क्षितौ । एतत् पदमशुद्धतरं यथाकथञ्चित् समर्थितम् यद्वा मम बुद्धेर्मान्द्यरूपदोषेण सम्यगर्थो नाऽवभासित इत्यलम् ||६|| विश्वजनीन ! सदीनमिति निजदृक्सृतिं, कथमथ मामवमान्य भजेर्यशसोन्नतिम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy