SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ गुरुशिष्यनामयुतं यमकमयं नेमिजिनस्तोत्रम् • १९१ सदामयोषित्पटलं महेन् [न यः] सदा महोल्लासकरौ यदङ्डी । सदा मयोपास्यत एष भिन्नः, सदा मयोभक्तिभरेण नाथ ॥१९।। त्वद्राषितानां गुणभाजनानां, श्रेणिः सुभाग्यैः सुलभा जनानाम् । जगत्त्रयीदत्तशुभाजनानां, गिः संशयानां सुविभाजनानाम् ॥२०॥ स्थितः स मोक्षे विभुतापदेव, मामस्तभव्यान्तरताप देव । सा याद्यसा तं जनतापदेव, यस्मै नमस्कृत्य हतापदेव ॥२१॥ दयेहरीलाप नुताशिषं स, दयेहरीतिप्रददेव तेषाम् । दयेहरीणा घनताः सुपुण्यो-दयेहरीशत्विषि ये त्वयीश ! ॥२२॥ दिश्याः स मे शस्युपमानवारि-मुखः सुखं त्वं मतिमानवारि । मुक्तिः क्षमावीरुदमानवारि, येन स्मरश्चास्यत मानवारिः ।।२३।। मयागमश्रेणिनयप्रमाणा, मयागमः सेव्यत एष देवः । मयागमद्योनमदं समस्ता, मथाऽगमत्तद्विरदो महत्या ॥२४॥ नवा त्वयि ध्वस्तसुधामहेलाऽवाप्ताऽमराली बहुधा महेलाः । वा चिक्षिपुस्त्वां गुणधामहेला, दक्षाः सुराणां विविधा महेलाः ॥२५।। कोपायशाखीभन तुभ्यमस्त-कोपाय शास्त्रे शमिनां शिवस्य । कोपायशाम्यदुरित प्रभावौ, कोपायशोनाथ नमस्करोति ॥२६।। प्रभो ! निरस्तस्फुरदक्षमाय, तं याति भीतिक्षयदक्षमायः । तुल्यं नमस्यत्यमदक्षमाय, रक्षासु पुंसां विशदक्षमाय ॥२७|| मुक्तावदान्योत्तम ! येन दोषा, मुक्तावदारौत्सुकनन्दसत्वम् । मुक्तावदातोरुगुणगुमाम्भो, मुक्तावदास्ते रविरेष यावत् ।।२८।। भवान् भवाधिर्निजपादराग-जितारुणाम्भोज ! कृपादराग ! । धैर्येण भव्यालिमपादराग, रणेऽस्तलक्षक्षिति पादरागः ॥२९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy