SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ विविधछन्दोनामगर्भ नेमिजिनस्तोत्रम् • १४९ त्यजसि यदि स्मरेणुमित राज [ जि] मर्ती, तदिह विरागिता तव विभोऽभिनवा ॥४॥ उद्दामपञ्चमतरङ्गितगीतिभिर्विभो !, चङ्गाङ्गहार-करणाद्भूतनर्त्तनैरपि । वीणा - मृदङ्ग - पटहादिरवैरनीह ते, तूर्यत्रयं प्रमुदितास्त्रिदशा अदीदृशन् ॥५॥ ऋषभस्त्वया जिन ! जितः स मतङ्गजोsपि, गमनैः शुभैर्गुरु गभीरिमतः समुद्रः । निजधैर्यतः सुरगिरिश्च यदीदृशं नो, तदमी कथं क्रमतले कलयन्ति सेवाम् ||६|| नखकिरणजलोर्मी मालिनीश ! त्वदीये, चरणसरसि शश्वद् राजहंसैर्निषेव्ये । सकमल-तिमिचक्रे स्नानमातन्वतः श्राग्, मम भवतु भवाध्वभ्रान्तिखेदापनोदः ॥७॥ विष्टपाऽद्भूतसमस्तगुणोत्करसुन्दरं, तावकीनवदनं जिननाथ ! समानताम् । यातु केन विधिना सतताऽविधृतश्रिया, पङ्कजेन शशिना च समं जलजन्मना ॥८॥ वीतव्रीडाः कामक्रीडाः खिङ्गापीडाः स्त्रीप्रेष्याः, प्रास्तत्राण- प्राणिप्राण- क्षोदामोदिस्वान्ता ये । देवाः सेवाहेवाकित्वं तन्वानैस्तेप्यज्ञानै मन्यन्ते सर्वज्ञ ! स्वामिन्! निर्दोषं त्वां हित्वा हा ! ||९|| १. ' भवाब्धि ० ' - को. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy