________________
आगम
(४५)
प्रत
सूत्रांक
[१३]
दीप
अनुक्रम
[१४]
“अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्तिः)
मूलं [१३] / गाथा ||१...||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
प्रतिपूर्णघोषम् । अत्राह-घोषसममित्युक्तमेव तत्क इह विशेष इति उच्यते, घोषसममिति शिक्षाकालमधिकृत्योक्तं, प्रतिपूर्णघोषं तु परावर्त्तनादिकालमधिकृत्येति विशेषः कण्ठष्ट कण्ठोष्ठमिति प्राण्यङ्गत्वात्समाहारस्तेन विप्रमुक्तं कण्ठोष्ठविप्रमुक्तं, बालमूकभाषितवद्यदव्यक्तं न भवतीत्यर्थः, गुरुप्रदत्तया वाचनया उपगतं प्राप्तं गुरुवाचनोपगतं न तु कर्णाघाटकेन शिक्षितं न वा पुस्तकात् स्वयमेवाधीतमिति भावः, तदेवं यस्य जन्तोरावश्यकशास्त्रं शिक्षितादिगुणोपेतं भवति स जन्तुस्तत्रावश्यकशास्त्रे वाचनया शिष्याध्यापनलक्षणया प्रच्छनया- तङ्गतार्थादेर्गुरुं प्रति प्रश्नलक्षणया परावर्त्तनया-पुनः पुनः सूत्रार्थाभ्यासलक्षणया धर्मकथया-अहिंसादिधर्म्मप्ररूपणखरूपया वर्त्तमानोऽपि, अनुपयुक्तत्वादिति साध्याहारम्, आगमतो द्रव्यावश्यकमित्यनेन सम्बन्धः । ननु यथा वाचनादिभिस्तत्र वर्त्तमानोऽपि द्रव्यावश्यकं भवति तथाऽनुप्रेक्षयाऽपि तत्र वर्त्तमानस्तद्भवति ?, नेत्याह-'नो अणुप्पेहाएति अनुप्रेक्षया ग्रन्थार्थानुचिन्तनरूपया, तत्र वर्त्तमानो न द्रव्यावश्यकमित्यर्थः, अनुप्रेक्षाया उपयोगमन्तरेणाभावाद्, उपयुक्तस्य च द्रव्यावश्यकत्वायोगादिति भावः । अत्राह परः - 'कम्ह'त्ति, ननु कस्माद्वाचनादिभिस्तत्र वर्त्तमानोऽपि द्रव्यावश्यकं ? कस्माच्चानुप्रेक्षया तत्र वर्त्तमानो न तथेति प्रच्छकाभिप्रायः, एवं पृष्टे सत्याह- 'अणुवओगो दव्वमितिकहुत्ति' अनुपयोगो द्रव्यमितिकृत्वा, उपयोजनमुपयोगो-जीवस्य बोधरूपो व्यापारः, स चेह विवक्षितार्थे चित्तस्य विनिवेशखरूपो गुह्यते, न विद्यतेऽसौ यत्र सोऽनुपयोगः-पदार्थः, स विवक्षितोपयोगस्य कारणमात्रत्वात् द्रव्यमेव भवति
For P&P Cy
~ 34~