SearchBrowseAboutContactDonate
Page Preview
Page 943
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक |||| दीप अनुक्रम [ ७१३] Amauro “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा || १ | अध्ययनं [२०], सितं - बद्धमिहाष्टविधं कर्म तद् ध्यातं भस्मसाद्भुतमेषामिति सिद्धाः- ध्यानानलनिर्दग्धाष्टकर्मेन्धनाः, उक्तं हि - “सियं धंतन्ति सिद्धस्स, सिद्धत्तमुवजायति”त्ति, तेभ्यः कोऽभिप्रायः १ - तीर्थकर सिद्धेभ्य इतरेभ्यश्च 'नमो' नमस्कारं 'कृत्वा' - विधाय 'संयतेभ्यश्च' सकलसावद्यव्यापारोपरतेभ्य आचार्योपाध्याय सर्वसाधुभ्यः इतियावत् 'भावतः' परमार्थतो न तु संवृत्यैव, इत्थं पञ्चपरमेष्ठिरूपेष्टदेवता स्तवमभिधायाभिधेयादित्रयमेवाह - अर्थश्च धर्मवार्थधम यदिवाऽर्थ्यते-हितार्थिभिरभिलष्यते इत्यर्थः, स चासौ धर्मश्वार्थधर्मस्ततस्तयोस्तस्य वा गतिः - गत्यर्थानां ज्ञानार्थतया हिताहितलक्षणा स्वरूपपरिच्छित्तिर्यया यस्यां वा साऽर्थधर्मगतिस्तां, पाठान्तरतोऽर्थधर्मवतीं वा 'तचं 'ति तथ्याम् - अविपरीताम् 'अनुशिष्टिं' हितोपदेशरूपां शिक्षां शृणुत' आकर्णयत 'मे' इति मम मया वा कथयतः कथ्यमानां वेति शेषः, स्थविरयचनमेतत् अनेन च पूर्वोत्तरकालभाविक्रियाद्वयानुगतै ककर्तृप्रतिपादनेनात्मनो नित्यानित्यत्वमाह, एकान्तनित्यत्वे खविचलित रूपत्वान्न पूर्वक्रियाकर्तृत्वस्वरूपपरिहारेणोत्तरक्रिया कर्तृत्वा ख्यखरूपान्तरसम्भवः, एकान्तानित्यत्वपक्षे तु क्षणध्वंसित्वादुत्तरक्रियाकाल आत्मनोऽसत्त्वमेवेति नैकान्तनित्यानित्यपक्षयोः पूर्वोत्तरक्रियानुगतैककर्तृसम्भव इति भावनीयम्, इह चानुशिष्टिरभिधेया, अर्थधर्मगतिः प्रयोजनम् अन्योश्च परस्परमुपायोपेयभावलक्षणः सम्बन्धः सामर्थ्यादुक्त इति सूत्रार्थः ॥ सम्प्रति धर्मकथानुयोगत्वादस्य धर्मकथाकथनव्याजेन प्रतिज्ञातमुपक्रमितुमाह For Party निर्युक्तिः [४२२R...] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः ~942~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy