________________
आगम
(४३)
प्रत सूत्रांक ||४७
-४९||
दीप
अनुक्रम
[२७५
-२७७]
Jain Education intimat
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः)
मूलं [ - ] / गाथा || ४७-४९||
अध्ययनं [९],
क्रियत इति शेषः, पठ्यते च 'न तेणं'ति अत्र च सूत्रत्वाद्वचनव्यत्ययः, कुतः पुनरिदमित्याह- 'इच्छा' अभिलाषः 'दु'रिति यस्मादाकाशेन समा- तुल्या आकाशसमा 'अनन्तिका' अन्तरहिता, तथा चैतदनुवादी वाचक:- "न तुष्टिरह शताज्जन्तोर्न सहस्रान्न कोटितः । न राज्यान्नैव देवत्वान्नेन्द्रत्वादपि विद्यते || १ ||" किं सुवर्णरूप्ये केवले एव नेच्छापरिपूर्तये इत्याशङ्कयाह-'पृथ्वी' मही 'शालयः' लोहितशाल्यादयः 'यवाः' प्रतीताः, 'चः' शेषधान्यसमुच्चयार्थः, 'एवः' अवधारणे स च भिन्नक्रमो नेत्यस्यानन्तरं योक्ष्यते, 'हिरण्यं' सुवर्ण, ताम्रायुपलक्षणमेतत्, 'पशुभिः' गवा| वादिभिः 'सह' साथै 'प्रतिपूर्ण' समस्तं पठन्ति च- 'सवं तं'ति सर्वम्-अशेषं न तु कियदेव तत्-पृथिव्यादि 'न' इति नैव 'अलं' समर्थ, प्रक्रमादिच्छापरिपूर्तये 'एकस्य' अद्वितीयस्य जन्तोरिति गम्यते, 'इति' एतत् श्लोकद्वयोक्तं 'विज'त्ति सूत्रत्वाद् विदित्वा यद्वा 'इती' यस्माद्धेतोः 'विद्वान्' पण्डितः 'तपः' द्वादशविधं 'चरेत्' आसेवेत, तत एव निःस्पृहतयेच्छा परिपूर्तिसम्भवादितिभावः । अनेन च सन्तोष एव निराकाङ्गतायां हेतुः, न तु हिरण्यादिवर्धनमित्युक्तं, तथा च हिरण्यादि वर्धयित्येत्यत्र यदनुमानमुक्तं, तत्र साकाङ्क्षत्व लक्षणो हेतुरसिद्धः, न चाकाङ्क्षणीयवस्त्व परिपूर्तस्तस्य सिद्धत्वं सन्तुष्टतया ममाऽऽकाङ्क्षणीयवस्तुन एवाभावादिति सूत्रार्थः ॥ भूयोऽपि 'एयं' ५० सूत्रं प्राग्वत् । नवरमविद्यमानविषयेषु विषयवाञ्छाविनिवृत्तोऽयमिति निश्चित्य सत्सु तेष्वभिष्वङ्गोऽस्ति उत न वेति | विवेचयितुमिन्द्र उवाच -
For PP Use On
निर्युक्तिः [२७९...]
~632~
www.ncb
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः