SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||१३|| दीप अनुक्रम [१२८] Jan Extrator ॐषॐ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [५], मूलं [ - ] / गाथा || १३... || निर्युक्ति: [२२२] अविश्यमरणं बालं मरणं विरयाण पंडियं बिंति । जाणाहि बालपंडियमरणं पुण देसविरयाणं ॥ २२२॥ व्याख्या - विरमणं विरतं - हिंसाऽनृतादेरुपरमणं न विद्यते तद् येषां तेऽमी अविरताः तेषां मृतिसमयेऽपि देशविरतिमप्रतिपद्यमानानां मिथ्यादृशां सम्यग्दृशां वा मरणमचिरतमरणं - बालमरणमिति ब्रुवत इति सम्बन्धः, तथा 'विरतानां' सर्व सावद्यनिवृत्तिमभ्युपगतानां मरणं 'पण्डित' मिति प्रक्रमात्पण्डितमरणम्, 'विति'त्ति ब्रुवते तीर्थकरगणधरादयः, जानीहि 'बालपण्डितमरण' मिति मिश्रमरणं, पुनःशब्दः पूर्वापेक्षया विशेषं द्योतयति, देशात् सर्वविषयापेक्षया स्थूलप्राणिव्यपरोपणादेर्विरता देशविरतास्तेषामिति गाथार्थः ॥ २२२ ॥ एवं चरणद्वारेण बालादि| मरणत्रयमभिधाय ज्ञानद्वारेण छद्मस्थमरणकेवलिमरणे प्रतिपादयितुमाह |मणपज्जवोहिनाणी सुअमइनाणी मरंति जे समणा । छउमत्थमरणमेयं केवलिमरणं तु केवलिणो ॥ २२३॥ व्याख्या—मनः पर्यवज्ञानिनोऽवधिज्ञानिनश्च ज्ञानिशब्दस्य प्रत्येकमभिसम्बन्धात् श्रुतज्ञानिनो मतिज्ञानिनश्च 'म्रियन्ते' प्राणांस्त्यजन्ति ये 'श्रमणाः' तपखिनः छादयन्ति छद्मानि - ज्ञानावरणादीनि तेषु तिष्ठन्तीति छद्मस्थाः तेषां मरणं छद्मस्थमरणमेतत्, इह च प्रथमतो मनःपर्यायनिर्देशो विशुद्धिकृतप्राधान्यमङ्गीकृत्य चारित्रिण एवं तदुपजायत इति स्वामिकृतप्राधान्यापेक्षो वा, एवमवध्यादिष्वपि यथायोगं खधियैव हेतुरभिधेयः, केवलिमरणं तु ये केव For Parson Free Only www.noltrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः ~466~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy