SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [३], मूलं [...] / गाथा ||४६...|| नियुक्ति: [१७७] (४३) %951 प्रत सूत्रांक ||४६|| च तस्यानकान्तिकमनन्तरमेवोक्तमिति किं तनिषेधेन', अथ वस्त्वन्तरविधिस्तत्र वस्त्वन्तरं शक्तिरनागताद्धा वा?, यदि शक्तिस्तत्र किं यावच्छक्तिस्तावन्मम प्रत्याख्यानम् अथ यावति विषये शक्तिस्तावतीति ?, प्रथमपक्षे शकनक्रियापरिमाणपरिमितत्वात् प्रत्याख्यानस्य परिमाणवत्वमेवोक्तं भवतीति खवचनविरोधः, प्रत्याख्यानानवस्था चैवं, शक्तेरनियतत्वात् , तथा चातीचारासत्त्वं, तदसत्त्वे च प्रायश्चित्ताभावः, द्वितीयपक्षे तु प्राणवधाद्यन्यतरविरतावपि संयतत्वापत्तिः, शक्त्यपेक्षत्वात्तद्धेतुप्रत्याख्यानस्य, उक्तं च-"एत्तियमेची सत्तित्ति णातियारो ण यावि पच्छित्तं । ण य सन्वव्वयनियमो एगेण य संजयत्तन्ति ॥१॥" अथानागताद्धा तत्रापि किं भावः प्रसाण्यानं ग्यजन या १,नk तावद् व्यञ्जन खनादावपि तदुचारणे प्रत्याख्यानप्रसङ्गात् प्रमादतः शक्तिवैकल्यतो वा व्यञ्जनस्खलने तदभावापपत्तेच, ततः प्रथमपक्ष एवावशिष्यते, तत्र च सदा सावधमहं न सेविष्ये इति तस्य भाव उत कदाचिदिति ?, यदि आद्यपक्षस्तदा मृतस्यापि तत्सेवायामपरिपूर्णप्रतिज्ञत्वेन प्रतभङ्गप्रसङ्गः, तथा सिद्धानामपि संयतत्वापत्तिः, सकलानागताद्धाप्रत्याख्यानधारित्वात् । एवं च 'सिद्धे नो चारित्ती नो अचारित्ती' इत्यागमविरोधः, अथ द्वितीयपक्षस्तत्र किं यथा भावस्तथा व्यञ्जनमथान्यथा ?, यदि यथा भावस्तथा व्यञ्जनम् एवं सति विज्ञातविषयादेरेव प्रत्याख्यान १ एतावन्मात्रा शक्तिरिति नातीचारो न चापि प्रायश्चित्तम् । न च सर्वव्रतनियम एकेनापि संयतत्वमिति ॥१॥२ सिद्धा नो चारित्रिणो नो अचारित्रिणः ॥ . . . दीप अनुक्रम [९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~354~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy