SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [3] दीप अनुक्रम [४९] उत्तराध्य. वृत्तिः ॥ ८१ ॥ “उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||४८...|| अध्ययनं [२] Education intemational व्यापिपुरुषाद्वैतनिराकरणं कृतं भवति, तत्र हि सर्वस्यैकत्वादयमाख्याताऽस्मै व्याख्येयमित्यादिविभागाभावत आख्यानस्यैवासम्भव इति, 'प्रविदिताः' प्रकर्षेण खयंसाक्षात्कारित्वलक्षणेन ज्ञाताः अनेन बुद्धिव्यवहितार्थपरिच्छेदवादः परिक्षिप्तो भवति, स्वयमसाक्षात्कारी हि प्रदीपहस्तान्धपुरुषवद्वयतिरिक्तबुद्धियोगोऽपि कथं कञ्चनार्थं परिच्छेत्तुं क्षमः स्याद् १, एवं चैतदुक्तं भवति - नान्यतः पुरुषविशेषादेतेऽवगताः, स्वयंसम्बुद्धत्वाद्भगवतः नाप्यपौरुपेयागमात् तस्यैवासम्भवाद्, अपौरुषेयत्वं ह्यागमस्य स्वरूपापेक्षमर्थप्रत्यायनापेक्षं वा ?, तत्र यदि स्वरूपापेक्षं तदा ताल्वादिकरणव्यापारं विनैवास्य सदोपलम्भप्रसङ्गः, न चावृतत्वात् नोपलम्भ इति वाच्यं तस्य सर्वथा नित्यत्वे आवरणस्याकिञ्चित्करत्वात्, किञ्चिकेरत्वे वा कथञ्चिदनित्यत्वप्रसङ्गाद्, अथार्थप्रत्यायनापेक्षम्, एवं कृतसङ्केता वालादयोऽपि ततोऽर्थं प्रतिपद्येरन्निति नापौरुषेयागमसम्भव इति । ते च कीदृशा इत्याह-- ' यानि 'ति परीपहान् 'भिक्षुः' उक्तनिरुक्तः, 'श्रुत्वा' आकर्ण्य, गुर्वन्तिक इति गम्यते, 'ज्ञात्वा' यथावदवबुद्ध्य, 'जित्वा' पुनः पुनरभ्यासेन परि| चितान् कृत्वा 'अभिभूय' सर्वथा तत्सामर्थ्यमुपहत्य, भिक्षोश्चर्या विहितक्रियासेवनं भिक्षुचर्या तथा 'परिव्रजन् समन्ताद्विहरन् 'स्पृष्टः' आश्लिष्टः प्रक्रमात्परीषहेरेव, 'नो' नैव 'विनिहन्येत' विविधैः प्रकारैः संयमशरीरोपघातेन विनाशं प्राप्नुयात् पठन्ति च ' भिक्खायरियाए परिवयंतो 'ति भिक्षाचर्यायां- भिक्षाटने परित्रजन्, उदीर्यन्ते हि Forest Use Only निर्युक्ति: [८६] ~164~ परीषहाध्ययनम् ॥ ८१ ॥ ww मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy