________________
आगम
(४१ / १)
प्रत गाथांक
नि/भा/प्र
||५||
दीप
अनुक्रम [१०]
“ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः)
मूलं [१०]
●→
“निर्युक्तिः [२...] + भाष्यं [५] + प्रक्षेपं [३...]"
८० आगमसूत्र - [४१/१], मूल सूत्र -[२/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
मुनि दीपरत्नसागरेण संकलित
Jan Education T
पुनरप्याह-यद्यस्ति ततः पञ्चमी भणिता किम् ?, आचार्य आह-अन्येऽप्यनुयोगाश्ञ्चत्वारः, अतः षष्ठी विद्यमानाऽपि नोक्तेति, भावना पूर्ववत् । अन्येऽप्यनुयोगाः सन्तीत्युक्तं, न च ज्ञायन्ते कियन्तोऽपि ते १ इत्यतः प्रतिपादयन्नाहचत्तारि उ अणुभगा चरणे धम्मगणियाणुओगे य। दवियणुजोगे य तहा अहकर्म ते महिडीया ॥ ५ ॥ ( भा० )
व्याख्या—चत्वार इति संख्यावचनः शब्दः अनुकूला अनुरूपा वा योगा अनुयोगाः, तुशब्द एवकारार्थः, चत्वार एव, अन्ये तु तुशब्दं विशेषणार्थं व्याख्यानयन्ति, किं विशेषयन्तीति चत्वारोऽनुयोगाः, तुशब्दाद्वौ च पृथक्त्वा पृथक्त्वभेदात्, कथं चत्वारोऽनुयोगाः १ इत्याह-'चरणे धम्मगणियाणुओगे य' चर्यत इति चरणं, तद्विषयोऽनुयोगश्चरणानुयोगस्तस्मिन् चरणानुयोगे, अत्र चोत्तरपदलोपादित्यमुपन्यासः, अन्यथा चरणकरणानुयोगे इत्येवं वक्तव्यं, चैकादशाङ्गरूपः, 'धम्मे' इति धारयतीति धर्मः, दुर्गतौ पतन्तं सत्वमिति, तस्मिन् धर्मे-धर्मविषये द्वितीयोऽनुयोगो भवति, स चोत्तराध्ययमप्रकीर्णकरूपः, 'गणियाणुओगे य' इति गणितं तस्यानुयोगो गणितानुयोगः तस्मिन् गणितानुयोगे-गणितानुयोगविषये तृतीयो भवति, स च सूर्यप्रज्ञत्यादिरूपः, चशब्दः प्रत्येकमनुयोगपदसमुच्चायकः, 'दवियणुओगे त्ति द्रवतीति द्रव्यं तस्यानुयोगो द्रव्यानुयोगः - सदसत्पर्यालोचनारूपः, स च दृष्टिवादः चशब्दादनार्षः सम्मत्यादिरूपश्च तथेति क्रमप्रतिपादकः, आगमोक्तेन प्रकारेण 'यथाक्रमं' यथापरिपाव्येति, चरणकरणानुयोगाद्या महर्द्धिकाः' प्रधाना इति यदुक्तं भवति एवं व्याख्याते सत्याह परः- 'चरणे धम्मगणियाणुओगे य दवियणुओगे यत्ति यद्येतेषां भेदेनोपन्यासः क्रियते तत्किमर्थं चत्वारः ? इत्युच्यते, विशिष्टपदोपन्यासादेवायमर्थोऽवगम्यत इति, तथा चरणपदं भिन्नया विभक्तत्या किमर्थमुपन्यस्तं ?,
अनुयोगस्य चत्वारः भेदानाम् कथनं एवं वैशिष्ठ्यं
For Parts Only
~18~