SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] ****** “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [-- /गाथा - ], निर्युक्तिः [७८०], भाष्यं [१२४...] व्याख्या - गङ्गात् द्वैक्रियाः, षडुलुकात् त्रैराशिकानामुत्पत्तिः, स्थविराश्च गोष्ठामाहिलाः स्पृष्टमवद्धं प्ररूपयन्ति, कर्मेति गम्यते, 'पुहमबद्धं परुविंसु' वा पाठान्तरं ततश्चावद्धिका गोष्ठामाहिलात् सञ्जाता इति गाथार्थः ॥ साम्प्रतं येषु पुरेपूत्पन्नास्त एते निह्नवास्तानि प्रतिपादयन्नाह- साथी उस पुरं सेविया मिहिल उल्लुगातीरं । पुरिमंतरंजि दसपुर रहवीरपुरं च नगराई ॥ ७८१ ॥ व्याख्या - श्रावस्ती ऋषभपुरं श्वेतविका मिथिला, उल्लुकातीरं पुरमन्तरखि दशपुरं रथवीरपुरं च नगराणि, निहवानां यथायोगं प्रभवस्थानानि, वक्ष्यमाणभिन्नद्रव्य लिङ्गमिथ्यादृष्टि बोटिकप्रभवस्थानरथवीरपुरोपन्यासो लाघवार्थ इति गाथार्थः ॥ भगवतः समुपजात केवलस्य परिनिर्वृतस्य च कः कियता कालेन निह्नवः समुत्पन्न इति प्रतिपादयन्नाह-चोदस सोलस वासा चोदसवीमुत्तरा य दोण्णि सया । अट्ठावीसा य दुवे पंचैव सपा उ चोयाला ।। ७८२ ।। व्याख्या - चतुर्दशपोडशवर्षाणि तथा 'चोदसवीमुत्तरा य दोन्नि सय त्ति चतुर्दशाधिके द्वे शते विंशत्युत्तरे च द्वे शते, वर्षाणामिति गम्यते, तथाऽष्टाविंशत्यधिके च द्वे शते, तथा पञ्चैव शतानि चतुश्चत्वारिंशदधिकानि इति गाथार्थः ॥ अवयवार्थ तु भाष्यकार एव प्रतिपादयिष्यति ॥ | पंच सया चुलसीया छच्चैव सया णवोत्तरा होंति । णाणुप्पत्तीय दुबे उप्पण्णा णिव्वुए सेसा ॥ ७८३ ॥ व्याख्या - पश्च शतानि चतुरशीत्यधिकानि षट् चैव शतानि नवोत्तराणि भवन्ति । ज्ञानोत्पत्तेरारभ्य चतुर्दशपोडशवर्षाणि यावदतिक्रान्तानि तावदत्रान्तरे द्वावाद्यादुत्पन्नौ उत्पन्ना निर्वृत्ते भगवति, यथोक्तकाले चातिक्रान्ते शेषाः Education intimation For Paints Use Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि रचित वृत्तिः ~ 626~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy