SearchBrowseAboutContactDonate
Page Preview
Page 1538
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [३६.. ] Education t आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्ति:) अध्ययनं [५], मूलं [-] / [गाथा-], निर्युक्तिः [१४४६] भाष्यं [२३१], 'देहो'त्ति शरीरसमुच्छ्रयो नारकादीनां यः स गतौ काय इतिकृत्वा गतिकायो भण्यते, अत्रान्तरे आह चोदक:- 'एसो सरीरकाउ 'ति नम्येष शरीरकाय उक्तः, तथाहि नौदारिकादिव्यतिरिक्ता नारकतिर्यगादिदेहा इति, आचार्य आह- 'विसे | सणा होति गतिकाओ विशेषणाद्-विशेषणसामर्थ्याद् भवति गतिकायः, विशेषणं चात्र गतौ कायो गतिकायः, यथा द्विवि धाः संसारिणः- त्रसाः स्थावराश्च पुनस्त एव स्त्रीपुंनपुंसकविशेषेण भिद्यन्त इत्येवमत्रापीति गाथार्थः । अथवा सर्वसत्त्वानामपान्तरालगत यः कायः स गतिकायो भण्यते, तथा चाह' जेणुवगहिओ' येनोपगृहीत उपकृतो व्रजति-गच्छति भवादन्यो भवः भवान्तरं तत्, एतदुक्तं भवति मनुष्यादिर्मनुष्य भवात् च्युतः येनाश्रयेणा (श्रितोऽ) पान्तराले देवादिभवं गच्छति स गतिकायो भण्यते, तं कालमानतो दर्शयति-यचिरेण 'कालेणं'ति स च यावता कालेन समयादिना व्रजति तावन्तमेव कालमसौ गतिकायो भव्यते एष खलु गतिकायः, स्वरूपेणैव दर्शयन्नाह-'सतेयगं कम्मगसरीरं' कार्मणस्य प्राधान्यात् सह तैजसेन वर्तत इति सतैजसं कार्मणशरीरं गतिकायस्तदाश्रयेणापान्तरालगती जीवगतेरिति भावनी (यम) यं गाधार्थः ॥ निकायकायः प्रतिपाद्यते तत्र-'नियय'त्ति गाथार्द्ध व्याख्यायते 'निययमहिओ व काओ जीवनिकाय 'ति नियतो नित्यः कायो निकायः, नित्यता चास्य त्रिष्वपि कालेषुभावात् अधिको वा कायो निकायः, यथा अधिको दाहो निदाह इति, आधिक्यं चास्य धर्माधर्मास्तिकायापेक्षया स्वभेदापेक्षया वा, तथाहि एकादयो यावदसज्ञेयाः पृथिवी कायिकास्तावत् कायस्त एव स्वजातीयान्यप्रक्षेपापेक्षया निकाय इति, एवमन्येष्वपि विभाषेत्येवं जीवनिकायसामान्येन निकायकायो भण्यते, अथवा जीवनिकायः पृथिव्यादिभेदभिन्नः पद्विधोऽपि निकायो भण्यते तत्समुदायः एवं च निकायकाय इति, गर्त निकायकायद्वारं । अधुनाऽस्तिकायः प्रतिपाद्यते, For Parts Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1537 ~ Dig
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy