SearchBrowseAboutContactDonate
Page Preview
Page 896
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [१३३] दीप अनुक्रम [२५८] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) वक्षस्कार [७], मूलं [१३३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्बूद्वीपशान्तिचन्द्री - या वृतिः ॥४४६ ॥ सर्वाभ्यन्तरानन्तरमण्डलात् पूर्वानुपूर्व्या गण्यमानं त्र्यशीत्यधिकशततमं प्रतिमण्डलं चाहोरात्रगणनादहोरात्रोऽपि यशीत्यधिकशततमस्तेनायं दक्षिणायनस्य चरमो दिवस इत्याद्यभिधातुमाह-'एस णं पढने छम्मासे एस णमित्यादि, एप च दक्षिणायनसत्कत्र्यशीत्यधिकशतदिनरूपो राशिः प्रथमः षण्मासः - अयनरूपः कालविशेषः, पट्सङ्ख्याङ्काः | मासाः पिण्डीभूता यत्रेति व्युत्पत्तेरिदं समाधेयं, अन्यथा प्रथमः पण्मास इत्येकवचनानुपपत्तिरिति, अथवा पाश्यादि | गणान्तः पाठात् स्त्रीत्वाभावे अदन्तद्विगुत्वेऽपि न ङीप्रत्ययस्तेनैव तत्प्रथमं षण्मासं आर्पत्वात् पुंस्त्वं, एतच्च प्रथमस्य प| मासस्य दक्षिणायनरूपस्य पर्यवसानं, अध सर्ववाह्यमण्डलचारानन्तरं सूर्यो द्वितीयं पण्मासं प्राप्नुवन् गृह्णन् इत्यर्थः प्रथमे अहोरात्रे उत्तरायणस्येति गम्यं, वाह्यानन्तरं पश्चानुपूर्व्या द्वितीयं मण्डलमुपसङ्क्रम्य चारं चरति, अथात्र गत्यादि| प्रश्नार्थ सूत्रमाह-'जया ण' मित्यादि, यदा भगवन् ! सूर्यः बाह्यानन्तरमर्वाक्तनं द्वितीयं मण्डलमुपसङ्गम्य चारं चर| ति तदा भगवन् ! एकैकेन मुहर्त्तेन कियत् क्षेत्रं गच्छति ?, भगवानाह गौतम ! पञ्च पञ्च योजनसहस्राणि त्रीणि च | चतुरुत्तराणि योजनशतानि सप्तपञ्चाशतं च षष्टिभागान् योजनस्यैकैकेन मुहर्त्तेन गच्छति ५३०४ ६७, तथाहि--अस्मि न् मण्डले परिश्यपरिमाणं त्रीणि लक्षाणि अष्टादश सहस्राणि द्वे शते सप्तनवत्यधिके योजनानां ३१८२९७ ततोऽस्य षष्टचा भागे हृते लब्धं यथोक्तमन्त्र मण्डले मुहूर्त्तगतिप्रमाणं, अत्रापि दृष्टिपथप्राप्ततापरिमाणमाह- तदा इहगतस्य मनुध्यस्येति प्राग्वत् एकत्रिंशता योजनसहस्रैः षोडशाधिकैः नवभिश्च योजनशतैरे कोनचत्वारिंशता च षष्टिभागैर्योजनस्य For P&Praise City ~895~ ७वक्षस्कारे मुहूर्त्तगतिः सू. १३३ ॥४४६ ॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy