SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], --------- --------- मूलं [९३] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [९३] गाथा प्रज्ञप्तः, सर्वात्मना विजेतव्यश्चक्रवर्त्तिनामिति विजयः अनादिप्रवाहनिपतितेयं संज्ञा तेनेदमन्वर्थमात्रदर्शनं न तु साक्षात्प्रवृत्तिनिमित्तोपदर्शनमिति, उत्तरदक्षिणाभ्यामायतः पूर्वापरविस्तीर्णः पल्यङ्कसंस्थानसंस्थितः आयतचतुरनत्वात्, गङ्गासिन्धुभ्यां महानदीभ्यां वैतादयेन च पर्वतेन षड्भागप्रविभक्तः षट्खण्डीकृत इत्यर्थः, एवमन्येऽपि || विजया भाव्या, परं शीताया उदीच्याः कच्छादयः शीतोदाया याम्याः पक्ष्मादयो गङ्गासिन्धुभ्यां पोढा ||| कृताः, शीताया थाम्या पच्छादयः शीतोदाया उदीच्या वप्रादयो रक्कारक्तवतीभ्यामिति, उत्तरदक्षिणायतेति || विवृणोति-पोडश योजनसहस्राणि पश्चयोजनशतानि द्विनवत्यधिकानि द्वौ चैकोनविंशतिभागी योजनस्यायामेन, अत्रोपपत्तिर्यथा-विदेहविस्तारात् योजन ३३६८४ कला ८ रूपात् शीतायाः शीतोदाया वा विष्कम्भो योजन ५०० रूपः शोध्यते, शेषस्थाढ़ें लभ्यते यथोक्तं मानं, इह यद्यपि शीतायाः शीतोदाया वा समुद्रप्रवेशे एव पञ्चशतयोजनप्रमाणो विष्कम्भोऽन्यत्र तु हीनो हीनतरस्तथापि कच्छादिविजयसमीपे उभयकूलवर्त्तिनो रमणप्रदेशावधिकृत्य पश्चयोजनशतप्रमाणो विष्कम्भः प्राप्यत इति, प्राचीनप्रतीचीनेति विवृणोति-द्वे योजनसहस्र द्वे च योजनशते त्रयोKK दशोत्तरे किञ्चिदूने, अत्राप्युपपत्तिर्यथा-इह महाविदेहेषु देवकुरूत्तर कुरुमेरुभद्रशालवनवक्षस्कारपर्वतान्तरनदीवनमु। खव्यतिरेकेणान्यत्र सर्वत्र विजयाः, ते च पूर्वायरविस्तृतास्तुल्यविस्ताराः, तत्रैकस्मिन् दक्षिणभागे उत्तरभागे वाऽष्टौ वक्षस्कारगिरयः, एकैकस्य पृथुत्वं पंचयोजनशतानि, सर्ववक्षस्कारपृथुत्वमीलने चत्वारि योजनसहस्राणि, अन्तरनद्यश्च chemesekerseeneraeeseaesesesecene दीप अनुक्रम Recedeoeleseseses [१६७ -१६९] ~686~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy