SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [30] + गाथा: दीप अनुक्रम [१५१ -१६२] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) वक्षस्कार [४], मूलं [९०] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः खात्, पुरुषस्य कटिभाग इव, अन्यथा विडिमाया द्वियोजनातिक्रमे निश्चयप्राप्तस्य मध्यभागस्य ग्रहणे पूर्वापरशाखाद्वय विस्तारस्य ग्रहणसम्भवः विषमश्रेणिकत्वात्, अथवा बहुमध्यदेशभागः शाखानामिति गम्यते, कोऽर्थः १ - यतश्चतुर्दिक्शाखामध्यभागस्तस्मिन्नित्यर्थः, अष्टयोजनानयनं तु तथैव, उच्चत्वेन तु सर्वाग्रेण - सर्वसङ्ख्यया कन्दस्कन्धविडिमापरिमाणमीलने सातिरेकाण्यष्टौ योजनानीति, अथास्या वर्णकमाह-'तीसे ण'मित्यादि, तस्या जम्ब्वा अयमेतद्रूपो वर्णावासः प्रज्ञतः, वज्रमयानि मूलानि यस्याः सा वज्रमयमूला तथा रजता-रजतमयी सुप्रतिष्ठिता विटिमाबहुमध्यदेशभागे ऊर्ध्वविनिर्गता शाखा यस्याः सा रजतसुप्रतिष्ठितविडिमा, ततः पदद्वयकर्मधारयः, यावत्पदात् चैत्यवृक्षवर्णकः सर्वोऽप्यत्र वाच्यः कियत्पर्यन्तमित्याह -- अधिकमनोनिर्वृतिकरी प्रासादीया दर्शनीया इत्यादि । अथास्याः शाखाण्यक्तिमाह — 'जंबूए ण' मित्यादि, जम्ब्वाः सुदर्शनायाः चतुर्दिशि चतस्रः शाला:- शाखाः प्रज्ञष्ठाः, तासां | शालानां बहुमध्यदेशभागे उपरितन विडिमा शालायामित्यध्याहार्यं जीवाभिगमे तथा दर्शनात् शेषं सुलभं वैताढ्यसिद्धकूटगत सिद्धायतनप्रकरणतो ज्ञेयमित्यर्थः, अत्र पूर्वशालादौ यत्र यदस्ति तत्र तद्वत्कुमाह- 'तत्थ ण' मित्यादि, तत्र-तासु चतसृषु शालासु या सा पौरस्त्या शाला सूत्रे प्राकृतत्वात् पुंस्त्वनिर्देशः अत्र भवनं प्रज्ञप्तं क्रोशमायामेन 'एवमेवेति सिद्धायतनवदिति, अर्द्धक्रोशं विष्कम्भेन देशोनं क्रोशमुश्चत्वेनेति प्रमाणं द्वारादिवर्णकश्च वाच्यः, नवरमंत्र शयनीयं वाच्यं, शेषासु दाक्षिणात्यादिशालासु प्रत्येकमेकैकभावेन त्रयः प्रासादावतंसकाः सिंहासनानि सपरिवाराणि Fur Fraternae Cy ~899~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy