SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [३८] दीप अनुक्रम [५१] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः) वक्षस्कार [२], मूलं [३८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्री १० मधुरः शर्कराचाश्रितः, एतान् पञ्चविधान् रसविशेषान् जनयिष्यति, लवणरसस्य मधुरादिसंसर्गजत्वाद् तदभेदेन | विवक्षणात्, सम्भाव्यते च तत्र माधुर्यादिसंसर्गः सर्वरसानां लवणप्रक्षेप एव स्वादुत्वोत्पत्तेः तेन न पृथनिर्देशः, एषां च पश्चानां मेघानां क्रमेणेदं प्रयोजनं सूत्र उक्तमपि स्पष्टीकरणाय पुनर्लिख्यते - आद्यस्य भरतभूमेर्दाहोपशमः द्विती| यस्य तस्या एव शुभवर्णगन्धादिजनकत्वं तृतीयस्य तस्या एव स्निग्धताजनकत्वं न चात्र क्षीरमेघेनैव शुभवर्णगन्धरसस्पर्शसम्पत्तौ भूमिस्निग्धतासम्पत्तिरिति वाच्यं, स्निग्धताधिक्यसम्पादकत्वात् तस्य, नहि यादृशी घृते स्निग्धता तादृशी क्षीरे दृश्यत इत्यनुभव एवात्र साक्षी, चतुर्थस्य तस्यां वनस्पतिजनकत्वं पञ्चमस्य वनस्पतिषु स्वस्वयोग्यरसविशेषजनकत्वं यद्यप्यमृतमेघतो वनस्पतिसम्भवे वर्णादिसम्पत्तौ तत्सहचारित्वात् रसस्यापि सम्पत्तिस्तस्मादेव युक्तिमती तथापि स्वस्वयोग्यरसविशेषान् सम्पादयितुं रसमेघ एव प्रभुरिति, तदा च यादृशं भरतं भावि तथा चाह'तर णं भरहे वासे' इत्यादि, ततः उक्तस्वरूप पञ्चमेघवर्षणानन्तरं णमिति पूर्ववत् भारतं वर्षं भविष्यति, कीदृश| मित्याह-प्ररूढा - उद्गता वृक्षा गुच्छा गुल्मा लता वल्यस्तृणानि पर्वजा हरितानि औषधयश्च यत्र तत्तथा, अत्र समासे कप्रत्ययः, एतेन वनस्पतिसत्ताऽभिहिता, उपचितानि - पुष्टिमुपगतानि त्वक्पत्रप्रवा उपलवांकुरपुष्पफलानि समुदितानि सम्यक् प्रकारेण उदयं प्राप्तानि यत्र तत्तथा कान्तस्य परनिपातः प्राकृतत्वात्, एतेन वनस्पतिषु पुष्पफलानां रीतिर्दर्शिता, अत एव सुखोपभोग्यं - सुखेनासेवनीयं भविष्यति, अत्र वाक्यान्तरयोजनार्थमुपात्तस्य भविष्यतिपदस्य Furwale rely ~ 352~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy