SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ---------...-....--- --- मूलं [२३-२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [२३-२४] लोप इति। 'अस्थि ण' मित्यादि, माता या प्रसूते पिता यो बीज निषिक्तवान् भ्राता यः सहजातो भगिनी सहजाता भार्या-भोग्या जन्यः पुत्रः जन्या स्त्री दुहिता स्नुषा-पुत्रवधूः, अत्र भगवानाह-हन्तेत्यादि, नैव चः पुनरथें तेषा मनु-18 | जानां तीवं-उत्कट प्रेमरूपं बन्धनं समुत्पद्यते, तथाविधक्षेत्रस्वभावात् प्रतनुप्रेमबन्धास्ते युग्मिन इति, ननु चतुर्ष, कुटुम्बमनुष्येषु स्नुषासम्बन्धो यथा आपेक्षिकस्तथा भ्रातृव्यभागिनेयादिसम्बन्धः कथं न सम्भवी , उच्यते, कुबेरदत्तकुबेरदत्तास्वकभाववत् सोऽप्युपलक्षणाद् ग्राह्यः, परं स्फुटव्यवहारत्वेनेम एव सम्बन्धाः, 'अस्थि ण' मित्यादि, अरि:सामान्यतः शत्रुः वैरिको-जातिनिबद्धवैरोपेतः घातको-योऽन्येन घातयति वधक:-स्वयं हन्ता व्यथको वा-चपेटादिना ताडकः प्रत्यनीक:-कार्योपघातकः प्रत्यभित्रो-यः पूर्व मित्रं भूत्वा पश्चादमित्रो जातः अमित्रसहायो वा १, इहाचार्यः-ना-18 |यमिति, यतो व्यपगतो वैरजन्योऽनुशयः-पश्चात्तापो येभ्यस्ते तथा, वैरं कृत्वा हि तदुत्थफलविपाके पुमाननुशेते इति । 'अस्थि ण' मित्यादि, अत्र मित्रं-स्नेहास्पदं वयस्यः-समानवयाः गाढतरस्नेहास्पदं ज्ञातका-स्वज्ञातीयः यद्वा ज्ञातक:-18 | संवासादिना ज्ञातः सहजपरिचित इत्यर्थः सङ्घाटिकः-सहचारी सखा-समानखादनपानो गाढतमस्नेहास्पदं सुहृद्| मित्रमेव सकलकालमव्यभिचारि हितोपदेशदायि च साङ्गतिकः-सङ्गतिमात्रपटितः, हन्तेत्यादि पूर्ववत्, न चैव तेषां | मनुजाना ती रागरूपं बन्धनं समुत्पद्यते। 'अस्थि ण' मिसादि, अत्र चाह-आहूयन्ते स्वजनास्ताम्बूलदानाय यत्र स | आवाहो-विवाहात् पूर्व ताम्बूलदानोत्सवः विवाहः-परिणायनं यज्ञः-प्रतिदिवस स्वस्वेष्टदेवतापूजा श्राद्धं-पितृक्रिया दीप eseseseseseseaeseseroeneseaer अनुक्रम [३६-३७] ~ 248~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy