SearchBrowseAboutContactDonate
Page Preview
Page 1081
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः) वक्षस्कार [७], मूलं [ १७४- १७६] मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः नशतसहस्रं सर्वाप्रेण प्रज्ञष्ठम्, ननु ऊण्डत्वव्यवहारो जलाशयादी उच्चत्वव्यवहारस्तु पर्वतविमानादौ प्रसिद्धः द्वीपे तु स किं १, व्यवहाराविषयत्वादिति, उच्यते, समभूतलादारभ्य रत्नप्रभायामधः सहस्रयोजनानि यावद् गमनेऽधोग्रा| मविजयादिषु जम्बूद्वीपव्यवहारस्योपलभ्यमानत्वेनोण्डत्वव्यवहारः सुप्रसिद्ध एव तथा जम्बूद्वीपोत्पन्नानां तीर्थकृतां जम्बूद्वीपमेरोः पण्डगवनेऽभिषेकशि ठायामभिषिच्यमानत्वात् जम्बूद्वीपव्यपदेशपूर्वकमभिषेकस्य जायमानत्वेनो चत्वव्यवहारोऽप्यागमे सुप्रसिद्ध एवेति । अथास्यैव शाश्वतभावादिकं प्रश्नयन्नाह - 'जम्बुद्दीवे णमित्यादि, इदं च यथा प्राकू | पद्मवरवेदिकाधिकारे व्याख्यातं तथाऽत्र जम्बूद्वीपव्यपदेशेन बोध्यमिति, एवं च शाश्वताशाश्वतो घटो निरन्वयविनश्वरो दृष्टः किमसावपि तद्वत् उत नेत्याह-'जम्बुद्दीवे ण'मित्यादि, इदमपि प्राक् पद्मबरवेदिकाधिकारे व्याख्यातमिति । अथ किंपरिणामोऽसौ द्वीप इति पिपृच्छिपुराह- 'जम्बुद्दीवे णं भन्ते !' इत्यादि, जम्बूद्वीपो भदन्त ! द्वीपः किं | पृथिवी परिणाम:--पृथिवीपिण्डमयः किमप्परिणाम :- जलपिण्डमयः, एतादृशौ च स्कन्धायचित्तरजः स्कन्धादिवदजीवप|रिणामावपि भवत इत्याशङ्कयाह- किं जीवपरिणामः - जीवमयः, घटादिरजीव परिणामोऽपि भवतीत्याशङ्कयाह- किं पुन| लपरिणाम:- पुद्गलस्कन्धनिष्पन्नः केवलपुद्गलपिण्डमय इत्यर्थः तेजसस्त्वेकान्त सुषमादावनुत्पन्नत्वेन एकान्तदुष्प| मादौ तु विध्वस्तत्वेन जम्बूद्वीपेऽस्य तत्परिणामेऽङ्गीक्रियमाणे कादाचित्कत्वप्रसङ्गः वायोस्त्वतिचलत्वेन तत्परिणामे | द्वीपस्यापि चलत्वापत्तिरिति तयोः स्वत एव सन्देहाविषयत्वेन न प्रश्नसूत्रे उपन्यासः, भगवानाह - गौतम ! पृथिवी For P&Praise City ~ 1080 ~ ००००
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy