SearchBrowseAboutContactDonate
Page Preview
Page 1064
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) वक्षस्कार [७], मुनि दीपरत्नसागरेण संकलित ...... श्रीजम्बुद्वीपशान्तिचन्द्री - या वृत्तिः ॥५३० ॥ मूलं [ १६६ ] + गाथा: आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति " मूलं एवं शान्तिचन्द्र विहित वृत्तिः चातुर्यं त्रिपदी भूमी पदत्रयन्यासः जयिनीव गमनान्तरजयवती जविनी या वेगवती शिक्षिता - अभ्यस्ता गतियैस्ते तथा तेषां तथा ललन्ति - दोलायमानानि 'लाम'त्ति प्राकृतत्वाद्रम्याणि गल्लातानि - कण्ठे न्यस्तानि वरभूषणानि येषां ते तथा तेषां तथा सन्नतपावनामित्यादि पञ्च पदानि प्राग्वत्, नवरं बालप्रधानानि पुच्छानि वालपुच्छान्यर्थाच्चामराणीत्यर्थः, तथा 'तणुमुहुमे'त्ति पदं प्राग्वत् तथा मृद्धी विशदा- उज्ज्वला अथवा परस्परमसम्मिलिता प्रतिरोमकूपमेकैकसम्भवात् सूक्ष्मा-तम्बी लक्षणप्रशस्ता विस्तीर्णा या केसरपालि:-स्कन्ध केशश्रेणिस्तां घरंति ये ते तथा तेषां तथा ललन्तःसुवद्धत्वेन सुशोभाका ये स्थासका दर्पणाकारा आभरणविशेवशस्त एवं ललाटवरभूषणानि येषां ते तथा तेषां, तथा मुखमण्डकं च-मुखाभरणं अवचूलाश्च प्रलम्बमानगुच्छाः चामराणि च स्थासकाश्च प्रतीता एषां द्वन्द्वस्तत एते यथास्थाने नियोजिता येषां सन्ति ते तथा, अवादित्वादप्रत्यये रूपसिद्धिः, परिमण्डिता कटिर्येषां ते तथा, ततः पदद्वयकर्मधारयस्तेषां तथा तपनीयखुराणां तथा तपनीयजिह्वानामित्यादि नव पदानि प्राग्वत्, तथा महता - बहुव्यापिना हयहेषितरूपो यः किलकिलायितरवः - सानन्दशब्द स्तेनेत्यादि प्राग्वत्, एव च चतुर्ष्वपि विमानवाहाबाहक सिंहादिवर्णकसूत्रेषु कियन्ति पदानि प्रस्तुतोपाङ्गसूत्रादर्शगतपाठा (न) नुसारीण्यपि श्रीजीवाभिगमोपाङ्गसूत्रादर्शपाठानुसारेण व्याख्यातानि, न च तत्र वाचनाभेदात् पाठभेदः सम्भवतीति वाच्यं यतः श्रीमलयगिरिपादेजयाभिगमवृत्तावेव "क्वचित् सिंहादीनां वर्णनं दृश्यते तद्बहुषु पुस्तकेषु न दृष्टमित्युपेक्षितं, अवश्यं चेत्तद्व्याख्यानेन प्रयोजनं तर्हि जम्बूद्वीपटीका For P&False City ~1063~ वक्षस्कारे चन्द्रादिविमानवा हकाः सू. १६६ ॥५३०॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy