________________
आगम
(१७)
प्रत
सूत्रांक
[ ५६ ]
दीप
अनुक्रम [८]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
प्राभृत [१०],
प्राभृतप्राभृत [२०],
मूलं [ ५६ ]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः
गुणकारच्छेदश श्योरनापवर्त्तना, जातो गुणकारराशिर्नव शतानि पञ्चदशोत्तराणि ९१५, छेदराशिद्वपष्टिः ६२, तत्र नवभिः शतैः पञ्चदशोत्तरैः पञ्चदश गुण्यन्ते, जातानि त्रयोदश सहस्राणि सप्त शतानि पञ्चविंशत्यधिकानि १३७२५, तेभ्यः सप्तविंशतिः शतान्यष्टाविंशत्यधिकानि पुष्यसत्कानि शोध्यन्ते, स्थितानि पञ्चाद्दश सहस्राणि नव शतानि सप्तनवत्यधिकानि १०९९७, छेदराशिद्वषष्टिरूपः सप्तपट्या गुणितो जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि ४१५४, तैर्भागो हियते, लब्धे द्वे नक्षत्रे २, ते चाश्लेषामघारूपे, अश्लेषानक्षत्रं चार्द्धक्षेत्रमित्येतद्गताः पञ्चदश सूर्यमुहूर्त्ता उद्धरिता वेदितव्याः, शेषाणि तिष्ठन्ति पविंशतिः शतानि नवाशीत्यधिकानि २६८९, एतानि मुहूर्त्तानयनार्थं त्रिंशता गुण्यन्ते, जातान्यशीतिः सहस्राणि षट् शतानि सप्तत्यधिकानि ८०६७०, तेषां छेदराशिना ४१५४ भागो हियते, लब्धा एकोनविंशतिर्मुहर्त्ताः १९, शेषाण्यवतिष्ठन्ते सप्तदश शतानि चतुश्चत्वारिंशदधिकानि १७४४, एतानि द्वापष्टिभागानयनार्थ द्वापष्ट्या गुणयितव्यानीति गुणकारच्छेदराश्योद्वपट्याऽपवर्त्तना, जातो गुणकारराशिरेकरूपः छेदराशिः सप्तषष्टिः ६७, तत्रोपरितनो राशिरेकेन गुणितस्तावानेव जातः १४४४, तस्य सप्तषष्ट्या भागो हियते, लब्धाः षड्विंशतिर्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ । २३। तत्र ये दधा एकोनविंशतिर्मुहूर्त्ताः ये चौद्धरिताः पाश्चात्याः पश्चदश मुहर्त्तास्ते एकत्र मील्यन्ते, जाताश्चतुस्त्रिंशन्मुहूर्त्ताः, तत्र विंशता पूर्वफाल्गुनी शुद्धा, शेपास्तिष्ठन्ति चत्वारो मुहूर्त्ताः, तत आगतं तृतीयं पर्व भाद्रपदगतामावास्यारूपं उत्तराफाल्गुनीनक्षत्रस्य चतुरो मुहूर्त्तानेकस्य च मुहर्त्तस्य पविंशतिं द्वाषष्टिभागानेकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ भुक्त्वा सूर्यः परिसमापयति, तथा च वक्ष्यति
,
Education Internation
For Par Use Only
~ 334~