________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [३], -------------------- प्राभृतप्राभृत [-], --------- ----- मूलं [२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
सूर्यप्रज्ञ
(मल०)
प्रत सूत्रांक [२४]
॥६४
दीप अनुक्रम [३८]
|स्तापयन्तः प्रकाशयन्त आख्याता भगवतेति भगवान् वदेत् !, एवं गौतमेनोके भगवानेतद्विषयपरतीर्थिकप्रतिपत्तीनां मिथ्याभावोपदर्शनाय प्रथमतस्ता एवोपन्यस्यति-तत्थेत्यादि, तत्र-चन्द्रसूर्याणां क्षेत्रावभासनविषये इमाः खलु द्वादश प्रतिपत्तयः-परतीर्थिकाभ्युपगमरूपा प्रज्ञप्ताः, तद्यथा-'तत्थे'त्यादि, तत्र-तस्यां द्वादशानां परतीथिकानां मध्ये एकेप्रथमास्तीर्थान्तरीया एवमाहुः, एक द्वीपं एक समुद्रं चन्द्रसूयौँ अवभासयन्तौ उद्योतयन्तो तापयन्तौ प्रकाशयन्ती, सूत्रे | द्वित्वेऽपि बहुवचनं प्राकृतत्वात्, उक्तं च-बहुवयणेण दुवयण मिति, द्विवचनं चात्र तात्त्विकमवसेयं, परतीथिकैरेकस्य चन्द्रमस एकस्य च सूर्यस्याभ्युपगमात् , सम्प्रति अस्यैव प्रथममतस्योपसंहारमाह-'एगे एबमासु' एवं सर्वाण्यपि उप-12 संहारवाक्यानि भावनीयानि१, एके द्वितीयाः पुनरेवमाहुः-त्रीन् द्वीपान त्रीन् समुद्रान् चन्द्रसूर्यों यावच्छ(कश)ब्दोपादानात् अवभासयत इत्यनेन सह पदचतुष्टयं द्रष्टव्यं, तद्यथा-अवभासयत उद्योतयतस्तापयतः प्रकाशयत इति, एवमुत्त-15) स्वापि द्रष्टव्यं, २, एके पुनस्तृतीया एवमाहुः- अद्धच उत्थे'इति अर्द्ध चतुर्थ येषां ते अर्द्धचतुर्थाः, त्रयः परिपूर्णाश्चतुर्थस्य चार्द्धमित्यर्थः, अर्द्ध चतुर्थान् द्वीपान् अर्घचतुर्धान समुद्रान् चन्द्रसूर्याववभासयत इत्यादि प्राग्वत् ३, एके चतुर्थाः पुनरे-12 |वमाहुः-सप्तद्वीपान् सप्त समुद्रान् चन्द्रसूर्याववभासयतः४, एके पुनः पञ्चमा एबमाचक्षते-दश द्वीपान् दश समुद्रान् चन्द्रसूर्याववभासयतः ५, एके पुनः षष्ठा एवमभिदधति-द्वादश द्वीपान द्वादश समुद्रान् चन्द्रसूर्याववभासयतः ६, एके पुनः सप्तमा एवं भाषन्ते-द्विचत्वारिंशतं द्वीपान् द्विचत्वारिंशतं समुद्रान् चन्द्रसूर्याववभासयतः ७, एके पुनरष्टमा एवमाहुःद्वासप्तति द्वीपान् द्वासप्ततिं समुद्रान् चन्द्रसूर्याववभासयतः ८, एके पुनर्नवमा एवमाहुः-द्विचत्वारिंशं-द्वाचत्वारिंशद-15
~135~