SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [ ५६ ] दीप अनुक्रम [७७] “सूर्यप्रज्ञप्ति” - उपांगसूत्र -५ (मूलं + वृत्तिः) प्राभृतप्राभृत [२०], मूलं [ ५६ ] आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः प्राभृत [१०], मुनि दीपरत्नसागरेण संकलित. मंडलस्स सतहभाग चत्तारि । नव चैव चुण्णियाओ इगतीसकरण छेएण ॥१॥" अस्या अक्षरयोजना- एकं मण्डलमेकस्य च | मण्डलस्य सप्तषष्टिभागाश्चत्वारः च नव चूर्णिकाभागा एकस्य च सप्तषष्टिभागस्य एकत्रिंशत्कृतेन छेदेन ये चूर्णिका भागास्तेन च, एतावत्प्रमाणो ध्रुवराशिः, अयं च पर्वगतक्षेत्रादयनगतक्षेत्रापगमे शेषीभूतः, एतस्य चोत्पत्तिमात्रं भावयिष्यामः, तत एवंभूतं ध्रुवराशि मीप्सितपर्वभिर्गुणयित्वा तदनन्तरमयनं रूपाधिकं कर्त्तव्यं, तथागुणितस्य मण्डलराशेः यदि चन्द्रमसोऽयनक्षेत्रं परिपूर्णमधिकं वा सम्भाव्यते तत एतस्मादीप्सित पर्वसङ्ख्यागुणितात मण्डलराशेरुडुपतेः- चन्द्रमसोऽयनक्षेत्रं भवति शोयं, यति च यावत्सयानि चायनानि शुद्ध्यन्ति ततिभिर्युक्तानि पर्वाणि अयनानि क्रियन्ते, कृत्वा च भूयो रूप संयुक्तानि विधेयानि, यदि पुनः परिपूर्णानि मण्डलानि शुद्धयन्ति राशिश्च पश्चान्निर्लेपो जायते तदा तदयनसङ्ख्यानैर्निरंशं सद्रूपयुक्तं नास्ति, न तत्रायनराशी रूपं प्रक्षिप्यते इति भावः, तथा कृत्स्ने परिपूर्ण राशौ भवत्येकं रूपं मण्डलराशौ प्रक्षेपणीय, | भिन्ने- खण्डे अंशसहिते राशावित्यर्थः, द्विरूपे मण्डलराशौ प्रक्षेपणीये प्रक्षेपे च कृते सति यावान् मण्डलराशिर्भवति तावन्ति मण्डलानि तावतिथे ईप्सिते पर्वणि भवन्ति । तथा यदि ईप्सितेन पर्वणा ओजोरूपेण विषमलक्षणेन गुणकारों भवति तत आदिरभ्यन्तरे मण्डले द्रष्टव्यः, युग्मे तु समे तु गुणकारे आदि मण्डलेऽवसेयः, एष करणगाथासम्हाक्षरार्थः, भावना स्वियम् - कोऽपि पृच्छति-युगादौ प्रथमं पर्व कस्मिन्नयने कस्मिन् वा मण्डले समाप्तिमुपयाति १, तत्र | प्रथमं पर्व पृष्टमिति वामपार्श्वे पर्वसूचक एककः स्थाप्यते, ततस्तस्यानुश्रेणि दक्षिणपार्श्वे एकमयनं, तस्य चानुश्रेणि एकं मण्डलं, तस्य च मडलस्याधस्ताच्चत्वारः सप्तषष्टिभागास्तेषामप्यधस्तान्नव एकत्रिंशद्भागाः, एष सर्वोऽपि राशिर्ध्रुवराशिः, Education Internation For Parts Only ~ 316~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy