________________
आगम
(१६)
प्रत
सूत्रांक
[२१]
दीप
अनुक्रम [३१]
सूर्यमज्ञसिवृत्तिः ( मल० )
॥ ४७ ॥
सूर्यप्रज्ञप्ति" - उपांगसूत्र -५ ( मूलं + वृत्ति:)
प्राभृत [२],
प्राभृतप्राभृत [१],
मूलं [२१]
मुनि दीपरत्नसागरेण संकलित. आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः
मनुप्रविशति, प्रविश्य चाधः प्रत्यागच्छति - अधोभागवर्त्तिनं लोकं प्रकाशयन् प्रतिनिवर्त्तत इति भावः, अधः प्रत्यागत्य चावरभुवः - अधःपृथिव्या अधोभागाद्विनिर्गत्येत्यर्थः, पौरस्त्यालोकान्तादूर्ध्वं प्रातः सूर्योऽष्काये पूर्वसमुद्रे तिष्ठतिउद्गच्छति, एवं सकलकालमपि, अत्रैवोपसंहारः 'एगे एवमाहंसु' ७, एके पुनरेवमाहुः - पौरस्त्याल्लोकान्तादूर्ध्वं प्रथमतो बहूनि योजनानि ततः क्रमेण बहूनि योजनशतानि तदनन्तरं क्रमेण बहूनि योजन सहस्राणि दूरमूर्ध्वमुत्प्लुत्य - बुद्ध्या गत्वा अत्र अस्मिनवकाशे प्रातः सूर्यो देवतारूपः सदावस्थायी उत्तिष्ठति उद्गच्छति स चोद्गतः सन्निमं दक्षिणार्द्धलोकं - दक्षिणदिग्भाविनमर्द्ध लोकं, दक्षिणं लोकस्यार्द्धमित्यर्थः, तिर्यक्करोति-तिर्यक् परिभ्रमन् दक्षिणलोकार्द्ध प्रकाशयतीत्यर्थः, दक्षिणं चार्द्धलोकं तिर्यक्कुर्वन् तदैवोत्तरमर्द्धलोकं रात्रौ करोति, ततः स सूर्यः क्रमेणेममर्द्धलोकमुत्तरं तिर्यक्करोति, तत्रापि तिर्यक् परिभ्रममन् उत्तरमर्द्धलोकं प्रकाशयतीत्यर्थः, उत्तरं चार्द्ध लोकं तिर्यक्परिभ्रमणेन प्रकाशयन् तदैव दक्षिणमर्द्धलोकं रात्रौ करोति, ततः स सूर्य इमौ दक्षिणोत्तरार्द्धलोको तिर्यकृत्वा भूयोऽपि पौरस्त्याल्लोकान्तादूर्ध्वं प्रथमतो बहूनि योजनानि गत्वा ततः क्रमेण बहूनि योजनशतानि तदनन्तरं बहूनि योजन सहस्राणि दूरमूर्ध्वमुत्प्लुत्य - बुद्ध्या गत्वा अत्र-अस्मिन्नवकाशे प्रातः सूर्य आकाशे उत्तिष्ठति - उद्गच्छति, एवं सकलकालं, अनोपसंहारमाह- 'एगे एव माहंसु' ८। तदेवं परप्रतिपत्ती रुपदर्थं स्वमतमुपदर्शयति — 'वयं पुण' इत्यादि, वयं पुनरुत्पन्न केवलज्ञानाः केवलज्ञानेन यथावस्थितं वस्तुपलभ्य एवं वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह- 'ता' इत्यादि, ता इति पूर्ववत्, जम्बूद्वीपस्य द्वीपस्योपरि यद्वा तद्वा मण्डलं चतुर्विंशत्यधिकेन शतेन छित्त्वा चतुर्विंशत्यधिकशतवान् भागान् मण्डलं परिकल्प्ये
Eucation International
For Parts Only
~99~
२ प्राभृते १ प्राभृतप्राभूतं
॥ ४७ ॥
www.landbrary or