SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१२६ ] दीप अनुक्रम [१६४ ] “जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:) - प्रतिपत्ति: [३], उद्देशक: [(द्विप्-समुद्र)]. मूलं [ १२६ ] मुनि दीपरत्नसागरेण संकलित .........आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्तिः तस्यैव प्रायोऽतिकालिमसम्भवात् इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तिद्योतकः, वाशब्द उपमानान्तरापेक्षया समुच्चये, एवं सर्वत्रेतिवाशब्दौ द्रष्टव्यो, 'अञ्जनं' सौवीराञ्जनं रत्रविशेषो वा 'खञ्जनं' दीपमल्लिकाम: 'कजल' दीपशिखापतितं 'मषी' तदेव क ताम्रभाजनादिपु सामग्रीविशेषेण बोलितं मपीगुलिका पोलितकज्जलगुटिका, कचित् 'मसी इति मसीगुलिया इति वेति न दृश्यते, गवलं - माहिषं शृङ्गं तदपि चोपरितनत्यग्भागापसारणेन द्रष्टव्यं तत्रैव विशिष्टस्य कालिम्नः सम्भवात् तथा तस्यैव माहिषशृङ्गस्य निविडतरसार निर्वर्त्तिता गुडिका गवलगुडिका 'भ्रमरः प्रतीतः 'चमरावली' भ्रमरपङ्किः 'भ्रमरपतङ्गसारः' अमरपक्षान्तर्गतो विशिष्टकालिमोपचितः प्रदेश: 'जम्बूफल' प्रतीतम् 'आर्द्रारिष्टः' कोमलकाकः 'परपुष्टः' कोकिलः गजो गजलमा प्रतीत: 'कृध्ष्णसर्पः कृष्णवर्णसजातिविशेष: 'कृष्णकेसरः' कृष्णकुलः 'आकाशविगलं' शरदि मेवविनिर्मुक्तमाकाशखण्डं तद्वत्कृष्णमतीव प्रतिभातीति तदुपादानं, कृष्णा शोककृष्णकणवीरकृष्णवन्धुजीवाः अशोककणवीरबन्धुजीववृक्षभेदाः, अशोकादयो हि पञ्चवर्णा भवन्ति ततः शेषवर्णव्युदासार्थं कृष्णग्रहणम्, एतावत्युक्ते गौतमो भगवन्तं पृच्छति' भत्रे एवावे' इति भवेन्मणीनां तृणानां च कृष्णो वर्ण: 'एतद्रूपः' जीमूतादिरूपः ?, भगवानाह - गौतम! 'नायमर्थः समर्थः ' नायमर्थ उपपन्नो यदुतैवंभूतः कृष्णो वर्णों मणीनां तृणानां च, किन्तु ते कृष्णा मणयस्तृणानि च 'इतः' जीमूतादेः 'इष्टतरका एव' कृष्णवर्णेनाभीप्सिततरका एव तत्र किञ्चिदकान्तमपि केपाञ्चिदितरं भवति ततोऽकान्तवान्यवच्छित्त्यर्थमाह-'कान्ततरका एवं' अतिस्निग्धमनोहारिका लिमोपचिततया जीमूतादेः कमनीयतरका एव, अत एव 'मनोज्ञतरकाः' मनसा ज्ञायन्ते - अनुकूलतया स्वप्रवृत्तिविषयत्रियन्त इति मनोज्ञा-मनोऽनुकूलास्ततः प्रकर्षविवक्षायां तरप्रत्ययः, तत्र मनोज्ञतरमपि किञ्चिन्मध्यमं भवति ततः सर्वोत्कर्षप्रतिपादनार्थमाह- 'मन आपतरका एव' द्र Fir P&Perse City ~382~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy