SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३१८] दीप अनुक्रम [३९१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [२] मूलं [ ३१८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः इत्यादि, यश्चेह विशेषस्तमाह — 'नवरं एगट्टियवज्जं ति इहाभिनिषोधिकज्ञाने 'उग्गिण्हणया अवधारणया सवणया अवलंबणया मेहेत्यादीनि [पञ्च] पञ्च पञ्चैकार्थिकान्यवग्रहादीनामधीतानि, मत्यज्ञाने तु न तान्यध्येयानीति भावः, 'जाव मोइंदियधारण' त्ति इदमन्त्यपदं यावदित्यर्थः, 'जं इमं अन्नाणिएहिं 'ति यदिदम् 'अज्ञानिकैः' निर्ज्ञानैः, तत्रा[ल्पज्ञानभावादधनवदशीलवद्वा सम्यग्दृष्टयोऽप्यज्ञानिकाः प्रोच्यन्तेऽत एवाह-मिथ्यादृष्टिभिः, 'जहा नंदीए 'त्ति, तत्रैवमेतत्सूत्रम् -'सच्छंदबुद्धिमविगप्पियं तंजहा- भारहं रामायण' मित्यादि, तत्रावग्रहेहे बुद्धिः अवायधारणे च मतिः, स्वच्छन्देन - स्वाभिप्रायेण तत्त्वतः सर्वज्ञप्रणीतार्थानुसारमन्तरेण बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दबुद्धिमतिविकल्पितं - स्वबुद्धि कल्पनाशिल्पनिर्मितमित्यर्थः 'चत्तारि य वेय'त्ति साम ऋक् यजुः अथर्वा चेति 'संगोवंग' त्ति इहाङ्गानि-शिक्षादीनि षट् उपाङ्गानि च तद्व्याख्यानरूपाणि 'गामसंठिएति ग्रामालम्बनत्वाद् ग्रामाकारम्, एवमन्यान्यपि, नवरं 'वाससंठिए'ति भरतादिवर्षाकारं 'वासहरसंठिए' ति हिमवदादिवर्षधरपर्वताकारं 'हय संठिए' अभ्वाकारं, 'पसय'त्ति पसयसंठिए, तत्र पसय:- आटव्यो द्विखुरश्चतुष्पदविशेषः, एवं च नानाविधसंस्थानसंस्थितमिति ॥ अनन्तरं ज्ञानान्यज्ञानानि चोक्तानि, अथ ज्ञानिनोऽज्ञानिनश्च निरूपयन्नाह 'जीवा णं भंते!' इत्यादि, इह च नारकाधिकारे 'जे | नाणी ते नियमा तिक्षाणी'ति सम्यग्दृष्टिनारकाणां भवप्रत्ययमवधिज्ञानमस्तीतिकृत्वा ते नियमाश्रिज्ञानिनः, 'जे अन्नाणी ते अथेगतिया दुअन्नाणी अत्थेगतिया तिअन्नाणी'ति कथम् ?, उच्यते, असज्ञिनः सन्तो ये नारकेपूत्पद्यन्ते तेषामपर्याप्तकावस्थायां विभङ्गाभावादाद्यमेवाज्ञानद्वयमिति ते द्व्यज्ञानिनः ये तु मिथ्यादृष्टिसज्ञिभ्य उत्प Education Internation ज्ञानस्य भेद-प्रभेदाः For Parts Only ~694~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy